पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः कस्याञ्चिल्लोकातीतसत्तायां धर्मोपदेशमाकर्ण्य समेषां व्यलीयन्त । प्रणाम प्रसार्य मातेव श्रीरामकृष्णो भक्तानां भावमवधार्य, यत्र यस्य वेदनाऽस्ति, ताम पाकरोत् । तारकनाथः प्रथममेव दक्षिणेश्वरमागतः । श्रीठाकुरमा- लोक्यैव तेन ज्ञातं यन्माता जगज्जननी समुपविष्टा वर्त्तते । मनुष्ठातुं मस्तकमनमयत् । श्रीरामकृष्णो द्वौ हस्तौ तारकनाथस्य शिरः स्ववक्षसि समाचकर्ष । स्नेहेन प्रीत्या च तं नितरा- माप्यायितमकरोत् । अल्पीयस्येव वयसि मातृहीनस्य हृदयतो मातृताया अभावं सर्वकालाय दूरमकार्षीत् । श्रीरामकृष्ण- स्याभ्यन्तरे तेन विलुप्ता निजमाता पुनः प्राप्ता । वस्तुतः श्रीरामकृष्णो माता - आद्या शक्तिर्जगजनी आसीत् अतस्तेन रक्षणपालनयोर्भरण- पोषणयोरिहलोकपरलोककल्याणस्य च माध्यमेन तारकनाथस्य मनसि तदीयमातुः स्थानमधिगतम् । तारकस्य , समेषां मनांसि भक्तानां धर्मजीवनघटनाय श्रीरामकृष्णस्य प्रयत्ने नासीन्न्यूनता | तस्य योगदृष्टेः पुरतस्तदीयान्तरिकं चित्रं विचकास । तेन तेषां साधन- मार्गविना अपाकृताः । आध्यात्मिकशक्तिप्रभावेण च सर्वविधाप्य- पूर्णता निराकृतिं नीताः । श्रीरामकृष्णस्य शिक्षापद्धतिरासीदनुपमाऽभिनवा च । स शिष्याणां भावधारां पालयन् तदीयजीवनपूर्णतामसाधयत् । कस्यापि भाव- मीषदपि नाशयितुं नाचेष्टत | नरेन्द्रमसौ सर्वोच्चमधिकारिणमवा- गच्छत् । अद्वैतं ब्रह्मज्ञानमेव सर्वाभ्यर्हितं ज्ञानम् । स्वयमेवासौ जगाद – "अद्वैतानुभूतिरेव धर्मजीवनस्यान्तिमा प्रवृत्ति: ।” तदानी- न्तनेषु भक्तेषु केवलं नरेन्द्रनाथ एव तदद्वतज्ञानाधिकारी ।... एकदा श्रीरामकृष्णो विविक्ते नरेन्द्रनाथम तज्ञानमुपदिशन्नासीत् । जीवब्रह्म कत्वावबोधवार्तामशिक्षयत् । “सर्व ब्रह्ममयं जगत्" इत्यनु- भूत्यां तं प्रतिष्ठापयितुमियेष | नरेन्द्रः सर्वं शृण्वन्नपि न धारया-