पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ नरेन्द्रनाथेन सह श्रीठाकुरस्य सम्बन्धः समधिको गम्भीरः स्वतन्त्र इव चासीत् । नरेन्द्रे समागते तदीयः प्रेम सिन्धुरुद्वेलितोऽजायत । नरेन्द्रनाथस्यानुपस्थितौ स तस्य वार्तया प्रशंसया चात्मतृप्तिमलभत । - J एकदा युवकभक्तान् श्रावयन् स प्रावोचत् - "एते बालका अवरा न सन्ति, साधैक परीक्षा मुत्तीर्णा: ( अर्थात् एफू० ए० परीक्षायै प्रस्तुता भवन्ति ), शिष्टाः, शान्ता धर्मप्राणाश्च । परन्तु नरेन्द्रसमान एकोऽपि नास्ति दृष्टः । यथा गाने, वाद्ये, कथने, श्रवणे, लेखने पठने, तथैव धर्मविषयेऽपि । सच रात्रिं यावद् ध्यायति । ध्यानेन समनुष्ठितेनैव नितिगच्छति, बोधो न तिष्ठति । मम नरेन्द्रस्याभ्यन्तरे ईषदपि कृत्रिमता न विद्यते । परीक्ष्य पश्यत, उत्कृष्टतामाविष्करोति । अन्यान् बालकान् पश्यामि, महतायासेन कथमपि द्वित्राः परीक्षा उत्तरन्ति । आम्, एतावदेव । एतदनुष्ठाननैव तेषां समस्ताऽपि शक्तिः समाप्तिमेति । परन्तु नरेन्द्रस्तादृशो नास्ति | हसन् क्रोड्न् कार्य विधत्ते, परीक्षोत्तीर्णता तत्कृते न किमपि कार्यम् । स ब्राह्मसमाजे गच्छति, तत्र भजनं च गायति । परन्तु सोऽन्यब्राह्मवन्नास्ति । याथातथ्येनासौ ब्रह्मज्ञानी । ध्यानानुष्ठानकाले तेन ज्योतिर्दृश्यते । किमहं व्यर्थ नरेन्द्राय गृहयामि ?" नरेन्द्रनाथोऽपि सप्ताहे द्वित्राणि दिनानि न जाने केनाज्ञाताकर्षणेन समाकृष्टो दक्षिणेश्वर मागच्छत् । नरेन्द्रनाथो ब्राह्मसमाजे नियमितम- गच्छत्, केशवचन्द्रादिभिः ब्राह्मनेतृभिः सह घनिष्ठभावेनाऽमिलत् इति सर्वं श्रीरामकृष्णोऽज्ञासीत् । स तत्र न कामपि विप्रतिपत्तिमकरोत्,