पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवकानन्दः जना: पत्नी- त्वया साकं वार्ता करोसि, तथैवेश्वरोऽपि द्रष्टुं शक्यते, तेन सह वार्ताऽपि भवितुमर्हति । परन्तु एवं कः समीहते ? पुत्रार्थमश्रणि प्रवाहयन्ति, विषयसम्पत्तिद्रव्यादिभ्यो रुदन्ति, परन्तु भगवान् ने प्राप्त इति हेतोः को रोदिति ? स यदि नाधिगत इति- कारणाद् रुदन् तं कश्चिद् आह्वयति, तदासौ नूनं दर्शनं ददाति ।” ४१ श्रीरामकृष्णदेवस्य वचनं नरेन्द्रनाथस्य हृदये निविविशे। स मौनमाश्रयन् व्यचारयत्– “उन्मादे सत्यपीश्वरकृते त्यागमेतादृशं संसारे विग्ल एव मानवः कर्त्तु मपारयत् | उन्माद्यप्ययं महान् पवित्र- स्त्यागी च । अयमीश्वरं दृष्टवानस्ति । मानवहृदयस्य श्रद्धामर्चा च समधिगन्तुमर्हति । " " श्रीरामकृष्णसम्बन्धे बहुविधां वार्तामालोचयन् नरेन्द्रनाथस्त- स्मिन् दिने कलिकत्तां प्रत्यागच्छत् । किन्तु श्रीरामकृष्णस्य वार्तालापेन व्यवहारेणाद्भुतेन च तस्य मनसि तुमुलो झञ्झावातः समुत्पादितः । यथा यथा स व्यचारयत्, तथा तथा तस्य अर्धोन्मादिमानवस्य जीवनं गूढतापरिपूर्ण प्रतीतमभवत् । तस्य वचनं नूनमुन्मत्तप्रलाप इति न तिरस्कर्तुं युज्यते । ततः प्रभृति नरेन्द्रनाथस्य बलिष्ठं मनो गम्भीरं ध्यानं च श्रीठाकुरजीवनरहस्योद्घाटने नियोजितमभूत् । ` गृहमागत्यासावध्ययने मनो निवेशयितुं प्रयतितवान् परन्तु श्रीरामकृष्णं न विस्मतु मशक्नोत् । तस्य प्रत्येकं वचनं व्यवहारश्च नरेन्द्रनाथस्य मनसि महान्तं विस्मयमुदपादयत् । तदीयं निखिलमेव दुर्बोधं रहस्यपूर्णमभूत् । यावद् व्यचारयत्, तावदेव चित्तं विभ्रान्त- मबोभूयत - किमपि समाधानं नालभ्यत । श्रीरामकृष्णसत्संगमुहूर्तः स्वप्नसमानः प्रतीतोऽभूत् । रात्रिन्दिवं प्रतिक्षणं च श्रीरामकृष्णचिन्त- नानि तमस्थिरमकापु: । एकमनिर्वचनीयमाकर्षणं तदीयं सुदृढमपि -