पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः 'धर्मस्य तत्त्वं निहितं गुहायां' संगृह्य यो यच्छति सर्वजीवे ||६|| दरिद्रनारायणसेवनव्रतं लक्ष्यं हि यस्यैव च नित्यमासीत् । वरेण्यशिष्यं श्रीरामकृष्णस्य नरेन्द्रनाथं प्रणता नमामः ||७|| धन्योऽसि हे धर्मसमन्वयार्थिन् ! 'धर्मे गुरुर्भारतवर्षभूमिः' । त्वयैव देशान्तरसंस्थितेन संस्थापितं धर्ममहासभायाम् ||८|| वीरा वयं नो यदि शस्त्र युद्धे श्रेष्ठा वयं धर्ममये च संख्ये । संदेहबिन्दुर्न हि विद्यतेऽस्मिन् भवत्प्रसादादधुना पृथिव्याम् ॥६॥ श्रीरामकृष्णः खलु धर्मवृक्ष- स्तस्यापि मूलं श्रुतिवाक् सुनित्या | स्कन्धो विवेकः समुदारचेता आनन्दरूपा बहवश्च शाखाः ॥१०॥ अस्य प्रशाखा: प्रसृताः पृथिव्यां छायादिदानैः सकलानवन्ति । स्कन्धात्प्रजाताः फलपुष्पवत्यः शाखास्ततः स्कन्धमिमं नमामः ॥११॥ श्रीदक्षिणारञ्जनशास्त्रि - एम० ए० विरचिता विवेकानन्दप्रणतिः । उद्बोधनपत्रिकातः स्वत्वाधिकारिणामनुमतिक्रमेण षड्विंशतिवर्षस्य षष्ठसंख्यायाः संगृहीता । ३७०