पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः अन्तर्द्वन्द्वघातप्रतिघातैः प्रपीडितो नरेन्द्रनाथः सत्यधर्मलाभाय ब्राह्मसमाजे समधिकगमागममकार्षीत् । केशवचन्द्रः भाषणेषु च श्रीरामकृष्णस्याध्यात्मिकजीवनवाणीसम्बन्धे मकार्षीत् । एतन कलिकत्तास्था जनसाधारणाः श्रीरामकृष्ण विषये - ऽनेकान् वृत्तान्तान् अवागच्छन् । ब्राह्मनेतृभिः साकं घनिष्ठभावतो मिलित्वा समाजप्रार्थनादिषु योगं दत्त्वा नरेन्द्रनाथो नितरामाननन्द | रविवास- रस्योपासनाकाले मधुरं ब्राह्मसंगीतं गायन् असौ सर्वानानन्दयच्च | अल्पीयसैव समयेन स ब्राह्मनेतृणां विशेषत्रियपात्रता मगच्छत् तथा च समाजस्य सभ्यो भूत्वा निराकार रसगुणब्राह्मण उपासनायां व्रती बभूव बाल्यादेव तस्य ध्यानानुष्ठाभ्यास आसीत् । अतो मनःसंयमने समधिकप्रयत्नस्य न बभूवावश्यकत्वं तस्य । एवंभावेन ब्रह्मध्याने निमग्नः स सातिशयशान्ति प्रापत् । । २८ समाचारपत्रेषु आलोचना- - सन्देहवादस्तदीयमनसि ईश्वरास्तित्वविषये कियन्तमपि सन्देहं कथं नाऽऽविर्भावयेत्, किन्तु जगदिदं क्षणिकं, जीवनं स्वप्नोपसं, संसारिकी सुखदुःखानुभूतिः अतीव तुच्छेतिविषये निश्चितत्वाधिगमाय सिद्धांतेनानेन तस्य महती सहायता कृता । मरीचिकावत् अलीका- न्यस्थायीनि वस्तून्यभिलक्ष्य धावनं निरर्थकमेव इति चिन्ता तस्य सम्पूर्णामपि सत्तामुन्मथितामकार्षीत् । तदीयं हृदयं विद्रोहशीलमभूत् । सच भूमान्वेषणाय व्याकुलो बभूव । ब्राह्मसमाजे गत्वा ब्राह्मनेतृणां धर्मोपदेशमशृणोत्, प्रार्थनादौ योगदानं चाकरोत् । वासनया सह कलिकत्तास्थविभिन्नधर्मप्राणव्यक्तीनां मसावगच्छत् । चिरशान्तिः कुत्रेति तदीय एकमात्रं प्रश्न आसीत् । हृदयस्यातृप्त सान्निध्य- ब्राह्मसमाजस्य पद्धतिबद्धयोपासनया न तदीयं मनस्तृप्तिमासा- दयत्। तद्दृष्ट्या तत्र सर्वमपि प्रदर्शनार्थमेवाभवत् । स च गम्भीरे भावे निमज्जनमैच्छत् । क्रमशस्तेनेद मवधारितं यद् ब्राह्मसमाज एकं समाज- संस्कारकं प्रतिष्ठानमात्रमास्ते | केशवचन्द्रं प्रति तस्य श्रद्धा आसीत् ।