पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः रामेश्वरप्रोक्षणमोदितान्तः कन्यां कुमारों चलितः प्रयातुम् । आरुह्य च प्रस्तरखण्डमेकं ध्याने गभीरेऽथ यतिर्विलीनः ॥६०॥ सहस्रशोऽब्दाहितभारतीय- तपःफलीभूतगुरोः सकाशात् । यतिः कृती प्रेरणमाप दिव्यम् ||६१ ॥ पारेसमुद्रं त्वरितं प्रयातुं "पुत्र ! प्रतिष्ठस्व जयाय देवी सरस्वती त्वद्रसनासनास्तु" । मातुर्वरं प्राप्य स विश्वधर्म- सम्मेलनं गन्तुमथ प्रवृत्तः ||६२॥ कृता प्रतिज्ञा शिरसा नतेन धर्मेकतां मानवबन्धुभावम् । न्न कामयेऽहं जननि ! स्त्रमुक्तिम् ||६३ || श्रावयिष्यन्प्रकाशम् । दास्याम्येभ्यो विश्वधर्मोपदेशं स्वे स्वे धर्मे श्रद्धा संस्थितेभ्यः ||६४॥ इतो ददर्शायमखण्डभारतं प्रचण्डशक्त्या चिरदास्यदण्डितम् । नारी-नरकोटिमण्डितं दरिद्र विखण्डितं जात्युपजातिकण्डनैः ॥६५॥ संस्थापयिष्यामि जगत्यमुष्मि- शान्ति साम्यं जीवसेवां च मैत्रीं पाश्चात्त्येभ्यः ३५२