पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०५ युगाचार्य-विवेकानन्दः - वाराणसी अयोध्या - आगरा - वृन्दावन - हाथरस- हृषीकेश- प्रभृतिस्थानेषु कतिपयमासान् प्रव्रज्यायां व्यतीत्य बराहनगरमठे प्रत्यावर्तनम् । १८६० ईसवीयजनवरीमासे पुनः प्रव्रज्यायां निष्क्रमणम् तथा प्रायः चतुर्मासानन्तरं बराहनगरमठे प्रत्यावर्तनम् । १८०० ईसवीय जुलाईमासे स्वामिपादो बराहनगरमठात् दीर्घ- प्रव्रज्यायां निर्जगाम । ततो हिमालयात् कुमारिकापर्यन्त समग्रभारतस्य तीर्थेषु विभिन्न स्थानेषु च निष्किचनावस्थायां परिभ्रमणम् 13 १८६३ ईसवीयहायनस्य मईमासस्येकत्रिंशदिवसे जलयानेन अमेरिकादेशस्य धर्ममहासम्मेलने योगदानार्थं यात्रा । मुंबईनगरात् १८६३ ईसवीयहायनस्य जुलाईमासस्य षोडशदिवसे प्रशान्त- महासागरमतिक्रम्य कनाडाराज्यस्य वंकुवर बन्दरे ( पोताश्रये ) अवतीर्य रेलशकटं समारुह्य शिकागोऩगरे गमनम् । ) १८६३ ईसवीयसितम्बरमासस्यैकादशदिवसे सोमवारे धर्ममहा- सभायाः शुभोद्बोधनमभवत् । स्वामिमहोदयः तस्यां सभायां भाषण दत्तवान् । सप्तविंशतारिकातः धर्ममहासभाधिशनं प्राचलत् । तेन स्वामिपादेन विभिन्न दिनेषु द्वादश भाषणानि दत्तानि । तस्य सम्मेलन- स्यानन्तरं स्वामिमहोदयः अमेरिकामहादेशस्य विभिन्नस्थानेषु पर्यटन अनेकानि भाषणानि प्रदत्तवान् । 102 १८६५ ईसवीयहायनस्यागस्तमासस्यारम्भे स अमेरिकातो वेदान्त- प्रचाराय इङ्गलन्डदेशं प्रतस्थे । तत्र मासत्रयं यावत् बहूनि भाषणानि दत्तानि । १८६५ ईसवीयहायनस्यान्तिमभागे इङ्गलन्डतः अमेरिकागमनाय वाष्पीयजलयानेन प्रतस्थे । १८६६ ईसवीयहायनस्य फरवरीमासे “न्यूयार्क-वेदान्त-सामतिं" संस्थाप्य न्यूयार्कनगरप्रभृतिस्थानेषु पुनः भाषणदानं प्रारभत । -2020 २० PROPRIE 7