पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुगाचार्य-विवेकानन्दः विवेकानन्दस्य आत्मा देहपञ्जरात् मुक्तः असीमचिन्मयपरमात्मना सहैव एकीभूतो जातः । स खलु जगतामभ्युदयाय वेदान्तस्यैव वाणीं निरदिशत् – मानवात्मनां अमरत्वं निर्विशेषैकत्वं चेति । ३०२ भारतवासिनः प्रति सोऽवदत्, “अयि ! भारतवासिनः ! मा जातु विस्मर्यन्ताम् – युष्माकं नारीणां आदर्शभूताः, सीता, सावित्री, दमयन्ती च । मा जातु विस्मर्यताम् - तवैवोपास्यः सर्वत्यागी शङ्कर उमानाथः ! तव विवाह, त्वदीयं धनं, त्वदीयं जीवनं, केवलमिन्द्रिय सुखाय न, स्वीयव्यक्तिगतसुखाय च न भवन्ति । मा जातु विस्म- यताम् – जन्मतः प्रभृति त्वं मातृ तृप्त्यर्थमेव बलिरूपेणोत्सृष्टः । -- " मा जातु विस्मरत – नीचजातयः, मूर्खा दरिद्रा अज्ञाश्चर्मकारा, मलपरिष्कारका अपि तवैव भ्रातरः । तथैव रक्तं तेषु । अयि ! वीराः ! साहसमवलम्बध्वम्। साहकारमुद्घोप्यताम् अहं भारतवासी एव । ते खलु भारतवासिनो ममैव भ्रातरः । उच्चैः कथयत, मूर्खा भारतवासिनः, दोना हि भारतवासिनः, ब्राह्मणाश्चाण्डालाश्च भारतवासिनः, सर्व एव ममैव भ्रातरः । भारत- वासिनो मम प्राणाः, भारतीयदेवा देव्यश्च मम ईश्वराः | भारतीय: समाजो मे शिशुशय्या, मम मम यौवनस्योपवनं, मम वार्द्धक्यस्य वाराणसी एव । उच्चैब्रूत, "भारतीया मृत्तिका मम स्वर्गः, भारतीयं कल्याणं ममैव कल्याणम् । एवं नक्तन्दिवं पार्थयध्वं - हे गौरीनाथ ! अयि - स्वामी विज्ञानानन्दस्तु तस्यामेव रजन्यां – “इलाहाबादे" "ब्रह्मवादि- क्लाच" इति समितेर्देवगृहमध्ये ध्यानस्थ आसीत् । ध्यानावस्थायां तस्य दर्शनं जातं, यत् श्रीठाकुररामकृष्णदेवस्योत्संगे एव स्वामी सुसमासीनो जातः ।... परेद्युस्तारवार्त्तायोगेन बेलुडमठात् स्वामिनः देहत्यागवृत्तमवगम्य समवबोधो जातस्तद्दर्शनस्य किं तात्पर्य्यम् इति ।