पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः वायुपरिवर्त्तनार्थं च मध्यप्रदेशम् ( रायपुरम् ) अगच्छत् । कांश्चिन्मा- सानतीत्य स स्वीयपरिवारजनान् आजुहाव | सर्वेषां नयनभारो बालक- नरेन्द्रनाथोपरि समापतत् । २१ रायपुरे कतिचन मासान् यावन्निवासस्य फलस्वरूपा सर्वेषामेव मनोदेहसम्बन्धिनी सविशेषसमुन्नतिरभूत् । तत्र नासीत् कोऽपि विद्यालयः । अतो विश्वनाथदत्तन पुत्रशिक्षाभार: स्वयमेव गृहीतः । विद्यालयीय पाठ्यपुस्तकातिरिक्तं साहित्येतिहासादिविविधान् विषया नप्यसौ स्वपुत्रमशिक्षयत् । विश्वनाथदत्तपार्श्वेऽने के विशिष्टपुरुषा आयान्ति स्म । अनेक विषयाणा मालोचनाऽक्रियत । नरेन्द्रनाथोऽपि तत्र सम्मिलितः स्वीयं स्वतन्त्रं मतामतं प्रकाशयितुमवसरं लव्धवान् । एवम्प्रकारेण नरेन्द्रनाथः स्वल्पैरेवाहोभिरनेक विषयाणां गभीरं ज्ञान- मर्जितवान् । केवलमेतावदेव न हि, तस्याभ्यन्तरे सुदृढमात्मविश्वासो मर्यादा बोधश्च जागरणं प्रपेदाते । स च विभिन्नविषयाणां लेखकानेक ग्रंथानधोत्य तद्विचारैः परिचितो बभूव । अनेक विषया लोचनविशेपशक्तिप्रथमविकासोऽस्य रायपुर एवाभवत् । विश्वनाथ- नरेन्द्रनाथस्या साधारण्या तदीयोज्ज्वलभविष्यत्सम्बन्धे प्रसिद्ध - वीशक्तेबुद्धिमत्तायाश्च मुक्तकण्ठं प्रशंसां दत्तसुहृदोऽस्य परिचयमवाप्य विदधिरे | नरेन्द्रनाथः सर्वेषामेव प्रियपात्रतामगमत् । वर्षद्वयानन्तरं विश्वनाथदत्तः सपरिवारः कलिकत्तां प्रत्याजगाम । नरेन्द्रनाथस्य शरीरमानसयोर्यथेष्टा समुन्नतिः समभूत् । वर्षद्वयात् तस्य विद्यालयाद् विरह आसीत् । अतो हि प्रवेशिका ( एन्ट्रंस ) कक्षायां प्रवेशे बहुबाधा: समुपस्थिता बभूवुः । किन्तु ताः सर्वा बाधा अतिक्रम्य विशेषानुमत्या स प्रवेशिका कक्षायां प्रवेशं लब्धुमशक्नोत् । कठोरेण वर्षत्रयस्य पाठ्यमेकस्मिन्नेव वर्षे समापनीयमासीत् । परिश्रमेण विशेषानुरागेण च साकं प्रस्तुतो भूत्वा परीक्षां दातुमुपविवेश | तेनैकदा प्रोक्तम्- "प्रवेशिका परीक्षाया द्वित्रदिनान्यवशिष्टानि । -