पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः क्रमशो जगद्व्यवहारकार्येषु स सम्यगुदास्ते हम ; एवं सुगभीर ध्यानेषु निमग्नोऽभवत् । कर्मसम्पादनाय मन्त्रणार्थं पृष्टोऽपि स प्राह स्म, "एतेषु कर्मसु नाहं स्वशिरश्चिन्ताकुलितं कत्तू मिच्छुः ।" तदीयामन्वर्मुखतामालोक्य गुरुभ्रातरः शङ्किता अभवन् । श्रीश्रीराम- कृष्णदेवस्यैव वचनं तेषां स्मृतिपथमागतम् - "असौ यदा स्वस्वरूपं ज्ञास्यति तदैव देहमिमं हास्यतीति ।" एकदा कश्चित् गुरुभ्राता तमपृच्छत् “भोः स्वामिन् ! को भवान् ( किं– स्वरूपं भवत इति ) ? तत् किमवबोद्धु समर्थो भवान् ?” तदैव स सुगम्भीरस्वरं प्रत्युवाच, "अथ किम् । अहं ज्ञातुमीशोऽस्मि” । श्रीरामकृष्णदेवः यदेवानुभूतिद्वारं कुञ्जिकया समवरुध्य कालमरक्षत्, साम्प्रतं ( स्वामिनः ) मुक्तिकालमायान्तमवेत्य तामेव कुञ्जिकां तूर्ण निरर्गलममोचयत् । एतावन्तं २९८ देहत्यागस्य सप्ताहात् पूर्व स्वामी कञ्चन शिष्यं पञ्जिकामानेतु- मादिशत् । स तु समनोयोगं पञ्जिकाया: पत्राणि पुनः पुनरावृत्य द्रष्टुमारेभे । मनसि प्रतिभाति यत् कस्मैचित् कार्यविशेषाय शुभदिनं स निरूपयति । ततः स्वगृहे एव तां पञ्जिकां समस्थापयत् । तस्य देहावसानात् परं पञ्जिकावलोकनतात्पर्य सर्वे बुबुधिरे । देहत्यागस्य दिनत्रयात् पूर्वमपराहे मठ-प्रान्तर- भूमौ भ्रमन् वेलुङ- मठस्थितं साम्प्रतिकं स्वामिनः समाधि मन्दिर स्थानं प्रदर्श्य तेन उक्तम् यत्, "मम शरीरं जीवरहितं सत् अत्रैव सत्कृतं करिष्यथ” इति । शिष्टानि कतिदिनानि स अतीव स्वस्थः प्रफुल्लमनाश्चादृश्यत । देहोऽपि तस्य ज्योतिःपूर्ण एवाभवत् । कोऽपि नावबोद्धमीष्टे, यत् अन्तिमदिन मेतावदन्तिकस्थमिति । १६०२ सृष्टाब्दीयजुलाईमासस्य चतुर्थदिने शुक्रवासरे सोऽतीव- प्रत्यूषे शय्यां तत्यज । प्रातः चायपानसमये गुरुभ्रातृभिः सह कियतः संलापान् कृतवान् | कति पुरातनीयाः कथा: ! दिवा अष्टवादन -