पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वी प्रकाशकस्य निवेदनम् स्वामिविवेकानन्द महाराजस्य शततमं जन्मोत्सवमुपलक्ष्य स्मारक - ग्रन्थरूपेण संस्कृतभाषायां तस्य जीवनीग्रन्थस्य प्रकाशनपरिकल्पना शतवार्षिक समित्या कृता । तदनुसारं प्रायो मासचतुष्टयात्पूर्वं संस्कृत- जीवनी - ग्रन्थस्य मुद्रणकार्यम् आरब्धमभूत् । किन्तु अनेक प्रतिबन्धवशात् प्रतिकूलावस्थावृतत्वाच्च शताब्दी वर्षसमाप्तेः पूर्व तस्य ग्रन्थस्य प्रकाशनम् अशक्यसम्भवमभवत् । अधुना 'युगाचार्य-विवेकानन्दः' नाम्ना तं जीवनीग्रन्थं प्रकाशमानेतुं वयममन्दानन्दं विन्दामः । विवेकानन्दस्वामिनः देवभाषायां सविशेषा श्रद्धा प्रीतिश्चास्ताम् । किञ्च तस्या भाषायाः प्रचुरप्रचारे स विशिष्य गुरुत्वमादधानः अवर्तत । स एतावदप्याबभाषे “स्त्रीषु तथा निम्नश्रेण्या मानवेषु च संस्कृतशिक्षायाः विस्तारः सर्वप्रथममावश्यकः । अये निम्नवर्गीयाः · लोकाः ! युष्मानहं वक्तुं प्रभवामि यत् युष्माकमुन्नते: एक एवोपाय:- संस्कृतशिक्षा अस्ति, तथा उच्चवर्णानां शिक्षायाः स्वायत्तीकरणम् ।” - संस्कृतभाषायां स्वामिन: गाढा श्रद्धा तथा तस्या भाषायाः प्रचारस्य प्रयोजनीयता च तस्यान्तरस्य गभोरतमप्रदेशस्य कियत् स्थानमधिकृतमकुरुताम् इत्यस्य उपरितनोद्धृत्या आंशिक : परिचयः सम्प्राप्यते । प्राचीनार्यऋषीणां सदुपदेशाः एवं सनातन वैदिकधर्मस्य मूलप्रन्थसमूहा अपि संस्कृतभाषायामेव रचिताः विद्यन्ते । अतः