पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८७ युगाचार्य - विवेकानन्दः लवर्ण विना अन्नव्यञ्जनादिकं पक्त्वा युष्मभ्यं दास्यामः तेन यूयं तु खादिष्यथ ।” कृष्णस्तु तथा व्यवस्थया सम्मतोऽभवत् । तदनुसारेणैव स्वामी दधि-मोदक-पूरिका नानाव्यञ्जनानि च निर्माय तैः सपरितोपं सान्थालवासिनः सर्वानेव कर्मकरान अभोजयत् । ततः प्राह स्वामी, “एते खलु नारायणः । अद्याहं श्रीमते श्रीश्रीनाराय- गाय दधिमिष्टान्न भोगमयच्छम् ।” ततः स्वशिष्यं शरचक्रवर्त्तिनमाह, “एतान् साक्षात् नारायणमिवा पश्यम् । ईदृशं सरलं मनः एतादृशमकपट स्नेहार्द्रभावं न कुत्राप्य पश्यम् ।” ततो मठस्य संन्यासिनो ब्रह्मचारिणश्च लक्ष्यीकृत्यावदत् “... अहो ! देशस्य दरिद्राणां कृते कोऽपि न चिन्तयति, ये खलु जातेर्मेरुदण्डकल्पाः, येपान्तु श्रमेणैवान्नानि जायन्ते, ये खलु मल- वाहका निकृष्टत्वेन गणनीयास्ते यदि सकृदेव स्वस्वकार्यात् विरमन्ति, अधुनैव सर्वास्वेव नगरीषु हा-हा-ध्वनिरुत्थास्यति । तान् प्रति भूतिं प्रदर्य, शोके दुःखे च तान् सान्त्वयित्वा तेषां मनः सुस्थं कर्त्ता - मिच्छेत् एतादृशः, देशेऽस्मिन् कोऽपि नास्ति ? पश्य, हिन्दूनां सहानुभूति- मनासाद्य माद्राज प्रदेशे सहस्रशः “पेरिया". जातीयाः सृष्टधर्मा- सहानु वलम्बिनः संवृत्ताः । एतन्न जातु मन्यतां, केवलमुदरपूर्ति निमित्तं जनाः सृष्टधर्ममवलम्बन्ते । वयं तु दिवानिशं तान् “मा स्पृश", "मा स्पृश" इत्युक्त्वैव अवजानीमः । देशेऽस्मिन् तात! दयाधर्मस्य स्थान- मस्ति किम् ? केवलम् अस्पृश्यताप्रवर्त्तकानां संघस्यैव बलवत्ता । तादृशप्राणश न्यस्यैवाचारस्य वदने सम्मार्जनीप्रहारः क्रियताम्, परञ्च पदाघाती विधेयः । इष्यते, युष्माकं स्पृष्टास्पृष्टिपथस्य बन्धनं छित्वा अधुनैव बहिर्गत्वा समन्तादन्वेषणं करोमि, 'कः कुत्र पतितः, सहायहीनो, दीनः, दारिद्रयपीड़ितोऽस्ति' इत्येवमुद्घोप्य तान् सर्वान् श्रीरामकृष्ण- नाम्ना आहूय आनेष्यामीति । एते यदि न दैन्यमुक्ता भवन्ति, तर्हि दुर्गतिनाशिनी माता नैव प्रबोधं लप्स्यते । दिव्येनैव चक्षुषा अहं