पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ युगाचार्य-विवेकानन्दः पाश्चात्त्यपण्डितानां एतत् मतं स शास्त्र युक्तिभ्यां प्रत्याख्याय जर्मन- पण्डितेन ओपार्टे इत्यनेन सह शास्त्रार्थमकार्षीत् | शिवपूजा वेदात् उद्घृताऽस्ति तथा वेद एव हिन्दुधर्मस्य बौद्धधर्मस्य तथा भारतस्य अन्यधर्माणां मूलभित्तिरस्ति - इदमपि स प्रतिष्ठितं व्यधत्त । अन्यस्मिन् भाषणे बुद्धदेवात् चिरपूर्व श्रीकृष्णस्य आविर्भावं तथा गीताया रचनं महाभारतादनन्तरं नाभूत् इदं प्रमाणितं विधाय भारतीय- चारुकला-साहित्यज्यौतिपाणां ग्रीक प्रभावमस्वीकृतवान् | उपस्थितपण्डितमण्डल्यां विशिष्य नूतनेषु भूयांसः स्वामिमतमन्व- मोदन्त । उपरि स्वामी तस्मिन्नवसरे मासत्रयं पैरिसमध्युवास | अनेके विख्यात- विद्वांसस्तथा मनीषिणः तस्य भावेन प्रभाविता बभूवुः । पाश्चात्त्य देशेषु फ्रान्सीयायाः सभ्यतायाः प्रभावं निरीक्ष्य स मुग्धोऽभवत् । 'प्राच्य और पाश्चात्त्य' नामके ग्रन्थे तेन व्यावर्णि– “. पैरिस: यूरोपीय सभ्यता- गङ्गायाः गोमुखी अस्ति । एप पैरिसविश्वविद्यालयः यूरोपस्यादर्शोऽस्ति । ...अस्य रचनाया अनुकरणं यूरोपीयभाषासु विद्यते । दर्शनस्य, विज्ञानस्य खनिरस्ति एपा पैरिसनगरी ।" सर्वास्वपि एवं शिल्पस्य अन्यत्र सर्वत्र अस्या अनुकरणं भवति । "... - द्वितीयवारं पाश्चात्यभ्रमणे स अमेरिकायास्तथा यूरोपस्य संघटन- शक्तेः ष्पृष्टतः या हिंसकभोगलालसा, स्वार्थः, एवं प्राधान्य-प्रतिष्ठायाः अदम्या चेष्टा तथा साम्राज्यवादस्य लोलुपा दृष्टि: वर्तते, तस्या आविष्कारमातेने । पाश्चात्य सभ्यतायाः बाह्येन चाक चिक्येन स पुनर्नाकृष्टो बभूव । स निवेदितां प्राह–“पाश्चास्यजीवनयात्रा अट्टहास वर्तते । परन्तु तस्याधो विद्यते रोदनम् | तस्याः परि समाप्तिरपि रोदने एव भविष्यति । हासपरिहासादिकं यत्किञ्चित् अस्ति तत्सर्वमापातत उपर्युपरि एव - परन्त्वस्या आभ्यन्तरो भागः नितान्तं दयनीयोऽस्ति । अत्र ( भारते ) यः कश्चिद् विषादः, रोदन-परिदेवने