पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः न्यासन् । भापणानि प्रायेण भाषणेषु स भारतस्योद्धार विषयमेव गम्भीरां श्रद्धां निवेदयन् हिन्दी भाषानिबद्धान्यभूवन् । तेषु व्यावृणोत् । गुरुगोविन्दसिं सोऽभाषत — “ यदि यूयं देशस्य हितं वाञ्छथ, तर्हि प्रत्येकः गोविन्दसिंहो भवेत् । तस्यान्तरे यद् हिन्दु- रक्तमवर्तत तत्र ध्यानं दत्त ।” सर्वानपि साम्प्रदायिक-संकीर्णतायाः स्वात्मानं मोचयितुं स आहूतवान् | मानवात्मनः महिमकीर्तनम्, स्पृश्यास्पृश्यता-परिहारं तथा नारीशिक्षाया आवश्यकताच सर्वेषां पुरः स उपस्थापयामास । जातिभेदः, खाद्याखाद्य-विचारः एवं पुण्य- भूमेर्महिमापि आलोच्या विषया आसन् । स स्वान्तस्थं अग्निस्पर्श सर्वेभ्यो व्यतरत् । आर्यसमाजिकैः साकमपि तस्यानेका आलोचना बभूवुः । २६१ १ श्रीनगरात् स पुनः मारीमाययौ । तत्र स्वामिनः अभिनन्दनमा- चरितम् । तदुत्तरे सोऽपि हृदयस्पर्शि भाषणं प्रायच्छत् । तद्दर्शनार्थं महान् जनस्तोमः संकलितो बभूव | मारीतो रावलपिण्डीं पर्येत्य कश्मीरमहाराजस्य आमन्त्रणविशेषात् स्वामी जम्बूमुपाययौ । कश्मीर- महाराजः स्वामिसंदर्शनमवाप्य सुतरामेव श्रद्धान्वितोऽभूत् एवं प्रधानमन्त्रिणा तथा उच्चराजकर्मचारिभिः सह स्वामिनः धर्मप्रसंग निशम्य इदाधिक्येन मुग्धो बभूव, यद् दश-द्वादशदिवसपर्यन्तं तत्रावस्थाय प्रतिद्वितीयदिवसं भाषणमेकं दातुं स्वामिनमन्वरुन्धत् । स्वामी जम्बू-नगरे भूयांसि भाषणानि प्रादत्त | जम्बूतः परं स्याल- कोटमयासीत् । तत्र द्वे भाषणे अश्रावयत् । अलमोडात्यागानन्तरं । अद्य यावत् प्रायः मासत्रयं धर्मचर्चा, भाषणं, प्रवचनं तथा आलोच- नादिकं प्रवर्त्य सलवपुरं ( लाहौरं ) समाययौ । स्वामिनः आगमनेन तत्र हर्षकलकल: परिव्याप। लालाहंसराजप्रभृतयः आर्यसमाजनेतारः विशेषसमारोहेण साकं स्वामिनः स्वागतमातेनुः । एकादश दिनानि स लाहौर मध्युवास । अन्वहं तेन व्यस्तेनैवाभूयत । आर्यसमाजे सिख-