पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्च - विवेकानन्दः भारतस्य प्रतिगृहं प्रचारयितुमैच्छदवोचच्च – “समस्तेऽपि देशे महावीरस्य हनूमतः सपर्या प्रचारयत । दुर्बलानां हिन्दूनां पुरतो महावीर्यस्यादर्शमुपस्थापयत । शरीरे बलं हृदये च साहसं नास्ति - किम्भविष्यति जडेनैतेन पञ्जरेण ? मम समीहा वर्त्तते यन्महावीरस्य गृहे गृहे पूजा भवतु ।..." १५ मृत्योर्वाऽभिमुखं नासीत् तस्य दृष्टिः । स च महान् जितेन्द्रियो बुद्धिमानप्यभूत् । दास्यभावस्यैतेनादर्शन युष्माभिः स्वस्वजीवनस्य संघटनं कर्त्तव्यमास्ते । हनूमति यथैकतः सेवाभावस्तथैवापरतस्त्रिलोकसंत्रासी सिंहविक्रमश्च । रामस्य हिताय जीवनदाने तस्य संकोचो न बभूव । रामस्य सेवां विरहय्यान्यत्र सर्वत्रापि तस्योपेक्षा ! किम्बहुना ब्रह्मत्वशिवत्वलामेऽपि उपेक्षैवासीत् । रघुनाथस्या देश- पालनमेव तदीयजीवनस्यैकमात्रव्रतम् । एवमेवैकनिष्ठेन भाव्यम् ।...