पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः वरणे आगमनकष्टं कथं सोढम् ?" प्राध्यापकः सगद्गद् उदतरत्- “श्रीरामकृष्णस्य योग्यतमशिष्यदर्शनस्य सौभाग्यं प्रतिदिनं हस्तगतं न भविष्यति ।" तद् मर्मस्पर्शि वचनं स्वामिनमभ्यभावयत् । स जीवन- पर्यन्तम् अध्यापके सविशेषं वद्धश्रद्धो बभूव ।.. २२८ मैक्समूलरेण समागमानन्तरं १८६६ ई० वर्षे मईमासस्य ३० तारि- कायां स्वामी ‘मिसेज् बुल’-महोदयायै समलिखत्– “पूर्वेद्यु: मैक्समूल- रेण सार्धं मम समागमः समजनि । स महानुभावो मुनितुल्यः पुरुषः । तस्य वयोऽवस्था सप्ततिमिताऽपि युवकवत् प्रतिभासते । एतावद् दूरं तस्य मुखे वाधक्यव्यञ्जिका रेखा अपि न लक्ष्यन्ते । अह्ह् ! भारतवर्षं तथा वेदान्तञ्च प्रति तस्य यावत् प्रेम वर्तते यदि अस्मदन्तरे तदर्धमध्य- भविष्यत् ! तरिक्तं योगशास्त्रं प्रत्यपि स भावुकतां विभर्ति, तथा तत्र विश्वसिति । परन्तु पाखण्डिनः सर्वथा तस्मै न रोचन्ते । "सर्वतोऽधिकं रामकृष्ण परमहंसे तस्य अगाधा भक्तिरस्ति । स तस्य सम्बन्धे 'नाइन्टीन्थ सेञ्चरी' पत्रिकायामेकं निवन्धमालिखत् । स मामपृच्छत् -- ययं तं संसारे विज्ञातं विधात किमाचरथ ?' राम- कृष्णदेवः तमनेकवर्षेभ्यः मुग्धं व्यधात् । किमेष नास्ति सुसमाचार: ? " (तस्मिन् समये स्वामी व्याख्यानाद्यतिरिक्ततया सप्ताह पञ्च कक्षाः तथा एक प्रश्नोत्तरकक्ष तयति स्म । अनेन प्रकारेण जुलाईमास- पयन्तं प्रचारकार्यं निवर्त्य स 'सेवियर'-दम्पतीभ्यां तथा 'मिस मूलरया' च सार्धं यूरोभ्रमणार्थं निरगच्छत् । विश्रामार्थ सर्वे प्रथमं स्वीजरलन्डं यः । एकस्मिन् दिने, पर्यटन पर्वतोपरि एकस्मिन् क्षोदीयसि उपासना- मन्दिर स 'मेरो' महोदयायाः पादपूजामाचरत् । 'मन्दिरस्याचकः आपत्ति कुर्यात्' - इत्यतः स्वयमगत्वा मिसेजसे वियरदम्पतीभ्यां देव्याः पादपूजार्थं पुष्पाणि दत्वात्रवीत् - "इयमप्यस्ति माता ।” अन्यस्मिन् -