पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः सम्बन्धे ‘स्टैन्डर्ड’ -पत्रिका अलिखत्–“तस्मिन् दिने एको भारतीय- युवकसंन्यासी प्रिन्सेपहाले व्याख्यानमददात् । राजाराममोहनरायात् परमेकस्मात् केशवचन्द्रादतिरिक्तेषु भारतवासिषु तादृश उत्तमो वक्ता कदाऽपि इङ्गलन्ड-व्याख्यानमचे नादृश्यत । व्याख्यानदानसमये स महात्मनो बुद्धस्य तथा ईसामसीहस्य त्रिचतुराणां वचनानां तुलनायां अगणित यान्त्रिक निर्माणशालाभिः विविध वैज्ञानिका विष्कारैः २१३ तथा - यन्त्रादिभिः मानवजातेः कियान् साधारण उपकारः भवति - तस्य सम्बन्धे स तीव्रं मन्तव्यं प्राकटयत् । व्याख्यानदानावसरे सः कस्या अपि स्मारकलिपे: सहायतां नागृहात्। तस्य कण्ठस्वरो मधुरः एवं भाषणे एकमपि वचनं वैरस्यापादकं न बभूव ।..." राममोहनरायः तथा केशवचन्द्रसेनश्च दीर्घकालपर्यन्तं प्रचारस्य फलरूपेण यस्मिन् स्थानेऽधिकारं प्रापतुः, स्वामी विवेकानन्दः एके नैव भाषणेन तस्मिन् स्थानेऽधिकार प्रतिष्ठापितवान् | तस्य प्रत्येकं व्या- ख्यानम् अनेकसमाचारपत्रेषु उच्चां प्रशंसामलभत । स्वल्पैरेव दिनैः तस्य यश एतावत् अधिकं प्रासरत् यत् अनेके समाचारपत्रसम्पादकाः तेन सह मिलितुं समागच्छन् | अक्टूबर-मासस्य २३ तारिकायां 'वेस्ट मिनिस्टर-गजट'-संवाददाता व्यलिखत् – “स्वामी यदा वार्तालाप करोति तस्य मुखं बालकमुखवत् उज्ज्वलं भाति । तत् अतीव सरलं निष्कपटं तथा सद्भावपूर्ण प्रतीयते । यावद्भिर्जरद्य यावदहं सङ्गतोऽभूवं तेषु स्वाम्येव एकोऽपूर्वमौलिकभावपूर्णः पुरुषः अस्ति । इदमहंं निस्संदेहं वक्तुं शक्नोमि ।” स्वामी आङ्गल जाते: विशिष्टं गुणमाविष्कृत्य तेषां मनसि अधिकारम् अस्थापयत् तथा स तेषां गुणग्राहकतायां मुग्धोऽभवत् । तस्मादेव कारणात् स इङ्गलन्डं भारतस्य आध्यात्मिकताया: प्रतिष्ठाया उपयुक्तं