पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः ऽभवत् । ततस्तु ईश्वरेच्छया योरोपदेशे श्रीरामकृष्णदेवस्य वाण्याः प्रचारक्षेत्रं प्रस्तुतमभवत् । अनेके सुहृदः स्वामिनमिंग्लन्डदेशे समा- गन्तुं वारं वारं प्रार्थनां कुर्वन्तः पत्राण्य लिखन्– “अत्र वेदान्त- प्रचारार्थं विस्तृतं क्षेत्रं रिक्तं पतितमस्ति । श्रीमत आगमनेनैव सर्वः प्रबन्धः सम्पत्स्यते ।” एतन्निमन्त्रणाभ्यन्तरे स्वामिनः भगवत इङ्गितं प्रत्यभासत । तस्मिन्नेव समये न्यूयार्कतः एको धनिकः सखा पैरिस- मार्गेण इंग्लन्डं गच्छति । सः स्वामिनं सहगामी भवितुमनुरोध- मकरोत् | स्वामी तेन सह अगस्तमासमध्ये प्रस्थितः । नैपोलियनस्य समाधिस्थानं पैरिसे स वस्तुसंग्रहालय ) इत्यादिकानि द्रष्टव्यस्थानानि नन्दितो बभूव । स्वामी कुत्रापि अज्ञातः नावसत् । अत्रापि तस्य कैश्चिद् विद्वद्भिः साकं परिचयोऽभूत् ।... २११ for चित्रशाला-गिरजा·म्यूजियम ( अपूर्व- विलोक्य सविशेषमा-