पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः विचारस्य एवं धर्मानुशीलनस्य चाग्रहः सविशेषमुद्बुद्धोऽभवत् । प्रधानप्रधान विश्वविद्यालयेषु तदीयभाषणस्य तथा आलोचनायाः प्रबन्धः जायते । अमेरिकाजनमात्रं भारतवर्षसम्बन्धे गाढां प्रीतिं. तथा कृतज्ञताञ्च प्रकटयति । अस्माकं विश्वास : जायते यत् युष्माकं सुप्राचीनपवित्र धर्मग्रन्थेभ्यः अस्माभिरनेके विषया ग्रहीतव्या: । " ये सभायामुपस्थातुमसमर्था अभवत् तादृशा दरवर्तिग्रामक्षेत्र- नित्रासिनोऽपि भारतमातुः श्रेष्ठसन्तानं प्रति आन्तरिकों श्रद्धां विज्ञा- पितवन्तः । एकदैव ऐन्द्रजालिकस्य शक्त्या भारतवर्षस्य त्रिंशत्कोटि- स्त्रीपुरुषा आनन्दकोलाहलं कुर्वन्तः प्रबुद्धा इवाभूवन् । भारतस्याकाशः तथा वायुमण्डलं स्वामिविवेकानन्दस्य गौरवमयजयगानेन व्याप्ते जाते । २०६ स्वामी विवेकानन्दः तस्मिन् समये पाश्चात्त्यभूखण्डे यद् बीजमव- पत् तस्यैवांकुरोद्गमस्य परिवेपरचनामध्यकरोत् । सन् १८८५ ई० वर्षस्य फरवरीमासतः न्यूयार्कनगरे स धारावाहिकं भाषणं दातुमारभत तथा तस्यावशिष्टसमयः कतिपय सत्यनिष्ठानां धर्मानुरागिणाम् उत्साहिस्त्री- पुरुषाणां धर्मशिक्षणे व्ययितोऽभवत् । ज्ञानयोगस्य एवं राजयोगस्य च भाषणानां फलमियत् सुन्दरमभवत् यत् स्वल्पदिवसाभ्यन्तर एव अनेके जना योगसाधनस्य शिक्षा ग्रहीतु तत्समीपे समवेता अभूवन् । ते योगशास्त्रनियमानुसारं ब्रह्मचर्यव्रतं पालयन्तः पद्मासनं बद्ध्वा योग- साधनवतिनो बभूवुः ! स्वामिनः राजयोगस्य भाषणं यदा ग्रंथरूपेण प्रकाशितमभूत् तदा अमेरिकाया: शिक्षितेषु एवं विचारशीलव्यक्तिषु इयानधिक आग्रहः समुत्पन्नः यत् स्वल्पसप्ताहाभ्यन्तरे तस्य ग्रंथस्य त्रयाणां संस्करणानां प्रकाशनस्यावश्यकता अभवत् । इयति समये अमेरिकाया अनेके प्रसिद्धा: स्त्रीपुरुषाः तस्यानु रागिणः पृष्ठपोषकास्तथा शिष्याः संवृत्ताः । तेषु मैडम-मेरी-लुई, मिसेज डलिवुल डा० एलान् डे, मिस वाल्डो, प्रो०] वाइनमैन, प्रो० राइट, •