पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः - लिखितं भविष्यति – यत् नैष समरभावः, सहायता विनाशः, ग्रहणमेव, नापि द्वन्द्वं, परन्तु मेलनं शान्तिश्च ।” एव, १९६ नैष विवेकानन्दस्य महतोऽस्य वाक्यस्य फलं विपुलं जातम् । स वेदान्तस्य सार्वभौभामेव वाण प्रचारयामास । नैव तत् केवल- मावेदनरूपेण, उच्चतरसत्यरूपेणैव । तस्मादेव तत् सर्व- प्रतिनिधिषु श्रोतृमण्डलीषु च अमोघप्रभावं विस्तारयामास । फलतः आर्य- धर्मः, आर्यजातिः, आर्यभूमिश्च जगति सर्वेषां नयनेषु पूजास्पदरूपेण प्रतिष्ठिता अभवन् । पदविदलिता अपि हिन्दूजातीया नैव घृणास्पदं, दीना दरिद्रा अपि अमूल्यपारमार्थिक सम्पदामधिकारिणः । धर्म- जगति विश्वस्यैव गुरुपदमधिष्ठातु ते योग्यः । शतश एवं परं विवेकानन्दो हिन्दूजातीयानामात्ममर्यादाबोधं घृणावमाननापङ्कराशितः समुद्धृत्य स एव हिन्दूधर्म सर्वोच्चमासनमधिरोहयामास । शिकागो-धर्मसम्मेलने स्वामि- महोदयः यदेव महासत्यं प्रचारितवान्, यामेवाशावाणीमश्रावयत्, तत् भविष्यति काले सर्व जागतिकस्यैवाध्यात्मज्ञानस्य प्रशस्यतम- मवलम्बनं भविष्यति । शताब्दीत: प्रबोधयामास । जगत्सभायां " विवेकानन्दस्य विजयेन समग्रमेव भारतम् उल्लसितं प्रदीप्त च जातम् । दैन्येन लाञ्छना च अवनते भारते आनन्दमन्दाकिनी एव अवातरत् । अतीतं भस्मस्तूपं श्यामयितु सुरनदी प्रादुर्बभूव । स्वामि- महोदयस्य विजयप्रभावो भारतीयजातीयजीवनस्य प्रतिकर्मसु प्रति- प्रचेष्टास्वेव न्यपतत् । न केवलं धर्मविषये, न वा आत्मिकभूमौ, किन्तु राष्ट्रियार्थनैतिकानां सामाजिकानां च जीवने, किंबहुना जाती- यानां सामग्रिकजीवनेऽपि शिशिरसम्पातनमिव तत् कार्यकारि जातम् । " रोमाँ रोलाँ" तज्जागरणविषये समलिखत् “इयमेव सर्वतः प्राकू भारतस्य अग्रगतिः समारब्धा, तदेव दिनमारभ्य अतिकायस्यैव