पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः क्रिप्टोफर कोलम्बसेन अमेरिकाविष्कारस्य चतुःशतवर्षाणां पूर्ति- मुपलक्ष्य तस्मिन्नेव वर्षे तत्र विश्वमेलनस्य आयोजनमासीत् । नाना- देशानां विशेषतः अमेरिकायाः शिल्प-विज्ञानयोः वाणिज्य स्यान्यस्या नानालौकिकविद्यायाश्च समुन्नते: परिचयस्य जगद्वासिनां समीपे समुपस्थापनमेव तस्य सम्मेलनस्य मुख्यमुद्दश्यम् आसीत् । नारीप्रगतिः, चिकित्सा, वाणिज्यं, संगीतम्, अर्थनीतिः, विज्ञानम् एवमादिविभिन्न- विषयमवलम्व्य विंशतिः सम्मेलनानि आहूतान्यासन् । विश्वधर्म्म सम्मेलनमपि तस्य विश्वसम्मेलनस्य अंशविशेष एवासीत् । स्वामि- महोदयोऽस्मिन् धर्मसम्मेलने समुपस्थातुमेव अमेरिकामगच्छत् । किन्तु तस्य तत्र कोऽपि परिचितो जनः परिचयपत्रं वा नासीत् । सुतरां शिकागो- नगरमभ्येत्योपायाभावात् एकस्मिन् होटलभवने आश्रयं गृहीत्वा द्वादश- दिनानि यावत् विस्मय-विह्वल चित्तः परिभ्रम्य शिकागो-नगरस्य - १७९ निमन्त्रितः प्रतिनिधिः सन् शिकागोनगरं नागच्छत् । अध्यापको राइट-महोदयः शिकागो-धर्म-सम्मेलन- प्रतिनिधि निर्वाचन-सभायाः सभापतये यदा इममेव स्वामिमहोदयं प्रतिनिधिरूपेण ग्रहीतुमनुरोधपत्रं दत्तवान्, तदा केनापि नाम्ना तं परिचाययितुं नूनमेव प्रयोजनमभवत् । एवं तदैव मन्ये स तस्य “विवेकानन्द " इति नाम अलिखत् । सम्प्रति एषैव पृच्छा, तदेव नाम किं स स्वयमगृह्णात् अथवा कोऽपि तस्मै अददात् । अनेके वदन्ति, 'खेतडी' - महाराजः भारतत्यागात् पूर्वमेव तस्मै एतन्नाम ददौ । खेतड़ीस्थाने स सच्चिदानन्द-नाम्ना परिचित आसीदिति मन्ये । किन्तु खेतडीनृपतिः गुरोर्नूतनं नामकरणं कथं कत्तु मुद्युंक्त, तस्य किमपि सन्तोषकरं कारणम् अन्विप्यापि न लभ्यते । श्रद्धेयगुरोर्नाम-परिवर्त्तनं शिष्येण अनेकांशतः अस्वाभाविकं, तस्य प्रयोजनमपि किमप्यासीदित्यपि न ज्ञायते । “सच्चिदानन्द” इत्यपि नाम अतीव सुन्दरम् । 'शुभं मत्वा गृहीतवान् । स्वयमेव स्वामिमहोदयः तन्नाम