पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः कल्याणं सम्पत्स्यते । श्रीरामकृष्णस्य जोवनादर्शन प्राच्य प्रतीच्य - सभ्यतायाः सङ्गमभूमि प्रस्तोतुम् अहं निजजीवनं समापर्यम् ।” १६० स्वामिना हृदयस्यावेगेन प्राच्य-प्रतीच्यसभ्यतयोः तथा भावयोः आदान-प्रदाने कर्तुं पाश्चात्यदेशेषु वेदान्तवाणीं वोटुम् इच्छायां प्रकटि- तायामेव महाराजः सानन्दं सर्व व्ययं दातुं प्रस्तावमुपस्थापितवान् । किन्तु स्वामी आवेदयत् - "अधुनेव सन्दर्भः नोपस्थितः । श्रीभगवतः आदेशस्य कृते मया प्रतीक्षा कार्या । " मैसूरत्यागसमयः आसन्नः अस्ति। स्वामी रामेश्वरस्य दर्शनाभि- लापं प्रकटितवान् । महाराजः सविषादमवोचत् – “न हि स्वामि महोदय ! साम्प्रतं भवन्तं केनापि विधिना नाहं त्यक्ष्यामि | भवान् इतोऽपि कानिचिद् दिनानि निवसत्वत्र ।” (C किन्तु स्वामिनः संकल्पं दृढं दृष्टा महाराजः सविनयमभ्यर्थयत्- 'भवतः किमपि स्मारक-चिह्नं निधातुं वाञ्छामि। ददाति चेत् तदा भवतः कण्ठस्वरम् (रेकार्ड) भवान् आज्ञां कृत्वा स्थापयामि, येन भवतः प्राणोन्मादी स्वरोऽस्मत्कर्णयोः परिगुञ्जतु ।” स्वामी सम्मतिं प्रादात् । अङ्कनकार्यं ( रेकार्ड ) संवृत्तम् । स चाङ्कितः स्वरः प्रासादे दीर्घकालपर्यन्तं निहित आसीत् । महाराजः स्वामिनं गुरुवत् समाद्रियत। एकस्मिन् दिने स जगाद ● १८६२ ई० वर्षस्य सितम्बरस्य विंशे दिने लिखितादेकस्मात् पत्रात् स्वामिनः तदानीन्तनविचारस्य कश्चिद् आभास मिलति — “...तस्माद् यूयं ज्ञातुं पारयथ यदस्माभिः विदेशगमनं करणीयमेव । अस्माभिः द्रष्टव्यं यत् अन्यदेशानां समाजयन्त्रं कथं परिचालितं भवति एवं यद्यस्माभिः पुनरेकजाति- रूपेण परिणतैर्भवितव्यं चेत् तदा अन्यजातीयानां विचारेण साकम् अबाधः सम्पर्क: स्थापनीयो भवेत् ।... हे प्रभो ! कदा एको मनुष्यः अपरं मनुष्यं भ्रातृसाम्येन पश्येत् ?”