पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः . मकरोत् । अप्रत्याशितरूपेण एकस्मिन् दिने बम्बई-नगरे गुरुभ्रात्रा स्वामिनाऽभेदानन्देन तस्य सङ्गतिरभवत् । अनेकवार्तानन्तरं विवेका नन्दोऽवोचत् – “पश्य काली, मदन्तरे इयती शक्तिरुत्पन्ना वर्तते, भयं जायते, यदहं स्फुटितो भवेयम् । " , १५५ अभेदानन्दः विस्मितोऽभवत् । स्वामिनो हृदयस्था उत्कण्ठा तमध्यस्पृशत् । पश्चात् सोऽवदत् - "तस्मिन् समये स्वामिनोऽन्तरे वह्निः प्राज्वलदिव | भारतस्य प्राचीनस्य आध्यात्मिकभावस्य पुनः प्रतिष्ठायश्चिन्ता तस्य सम्पूर्ण हृदयेऽधिकारमकार्षीत् । तस्य दर्शन एव प्रतीयते स्म यत् स नूनम् एकः प्रवलो झञ्झावातः अस्ति ।” छबिलदासस्य भवने विवेकानन्दः पर्याप्तां वेदान्तचर्चामकरोत् । अनेके गण्य-मान्या एवं शिक्षिता जनाः तन्मुखात् बेदान्तव्याख्यां श्रुत्वा मुग्धा अभूवन् । * स कतिचन सप्ताहान् मुम्बापुरीमध्यवसत् । तस्मिन् स्वल्पे समये एव तस्य ख्यातिः समन्तात् प्रासरत् । तद्नन्तरं स पूनां जगाम | तदानीं तस्य स्वास्थ्यं समीचीनं नासीत् । स शकट्या द्वितीय-

  • विवेकानन्दस्वामी प्राच्य पाश्चात्त्यदेशेषु यद् वेदान्तप्रचारं चकार तस्य

संक्षिप्तः परिचयः तस्यैकस्मात् पत्रात् ज्ञायते । ६ मईमासे १८६५ ई० वत्सरे आलासिंगमालिखत् “सर्वे धर्माः वेदान्ते निहिताः सन्ति, अर्थात् वेदान्त- दर्शनस्य द्वैतम्, विशिष्टाद्व तम्, एवं अद्वैतम्, इमानि त्रीण्यपि मतानि तिसृणां कक्षाणामथवा भूमिकानामन्तः सन्ति तथा एकस्मात् परमपरमायाति । इमानि त्रीण्यपि मनुष्यस्याध्यात्मिकोन्नतेः तिस्रो भूमिकाः सन्ति । एतेषां प्रत्येकस्य प्रयोजनं विद्यते । इदमेव धर्मस्य वक्तव्यम् । भारतस्य विभिन्न- जातीयानाम् आचारव्यवहाराणामभ्यन्तरे प्रयोगफलस्वरूपतः वेदान्तदर्शनं यद् रूपमगृहात् तदेव यथार्थी हिन्दुधर्म: । ( स्वामो हिन्दुधर्मशब्दस्य स्थाने वेदांत- धर्मशब्दव्यवहारम् उपादिशत् ) | वेदान्तधर्मस्य प्रथमं सोपानम् अर्थात् द्वौ तबादः यूरोपजातीयानां भावान्तः ईसाईधर्मरूपेण परिणतो जातः । सेमिटिक-जातीयानां भावाभ्यन्तरात् मुस्लिमधर्मस्य रूपेण परिणतो बभूव । अर्द्ध तबाद: योगानुभूतेः