पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः वैभवान्तः स्वामिनो निःश्वासो रुद्घोऽभवदिव । सोऽलिखत्–“तत् कौपीनं, मुंडितो मस्तकः, वृक्षस्याधः शयनम् तथा भिक्षान्नभोजनम्- हा ! इमानि सर्वाण्येव मदीयतीब्राकांक्षाया विपयस्वरूपाणि सन्ति ।..." १५२ तथा भारत - महिमा स्वामिनोऽन्तर परिपूर्ण कृत्वाऽस्थापयत् । अस्मात् कारणात् भारतभूमेः महत्त्वसम्बन्वे सः अनेकस्थानेष्वकथयत्- “अस्माकं पवित्रा मातृभूमिरेव धर्मस्य तथा दर्शनस्य देशो वर्तते, धर्मवीराणां जन्मस्थानम एवं त्यागस्य क्षेत्रमस्ति | केवलम् अस्मिन्नेव देशे सुदूरातीतकालात् वर्तमानकालं यावत् मानवजीवनस्य महत्तमा आदर्शा: विद्यमानाः सन्ति । तत्त्वदृष्टः भगवत्परायणताय नोतिविज्ञानस्य प्रसूतिभूतमिदं भारतं माधुर्यस्य कोमलताया एवं मानवप्रीतेः खनिररित । इदं सर्वम् अधुनाऽपि वर्तते तथा समस्त- संसारस्यानुभवबलेनाहं साग्रहं वक्त शक्नोमि यत् एषु विषयेषु भारत- मद्यापि संसारस्य सर्वासां उन्नतजातीनामग्रगामि अस्तितादृशदेशस्य वयं सन्तानाः स्मः । यदा यूनानस्य जन्मैव नाभूत, रोमस्य वार्ता केनाऽपि विचारिताऽपि नाभूत् तथा वर्तमानयुरोपनिवासिनां पूर्व- पुरुषाः विचित्रैरङ्गरागै रंजिताः केवलमरण्यवासिनः असभ्याः आसन्, तस्मिन् सुदूरे प्रागैतिहासिकयुगेऽपि भारतं स्वसंस्कृतेः साधनायां समुन्नतमवतंत । ततोऽपि प्राचीनयुगेपु, येषामावरणस्यापसारणे जन- श्रुतिरपि संकुचिता भवति, तस्मात् कालात् वर्तमानसमयपर्यन्तं भारतात् अनेका उच्चभावानां शान्तेः तथा शुभेच्छाया वाण्य: संसारे प्रसरन्त्यः समायान्ति | संसारस्येतिहासम् आलोचयता कुत्रापि कस्यापि सुमहत आदर्शस्य संकेते प्राप्त एव दृश्येत यत् तस्य जन्मस्थानं भारतवर्षमेवास्ति । यथार्थतः अस्मन्मातृभूमे: निकटे जगतः ऋणमसीमास्ति । परस्स- हस्रवर्षेभ्यः विपत्तीनां तथा विदेशीयानां विधर्मिणामाक्रमणेषु