पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-वित्रकानन्दः बभूवतुः । एतस्मिन्नेव काले सहसा हरिसिंह स्पृशन् स्वामी जगाद - “पश्यत इयं श्रीभगवतः जीविता मूर्ति: ।” स्वामिनः स्पर्शेन हरिसिंहस्य भावान्तरं जातम् । अश्रूणि विमुं- चन्नसौ मन्त्रमुग्ध इव स्थितः मूर्तेर्दशनमकार्षीत् । गठेस प्रोवाच - "स्वामिन्निदानीं यावत् तदनन्तरं गद्- तर्कयुक्ति बलेन तत्संभवमभूत् । यन्नावधारयितुमशक्लवम्, अद्य भवतः कृपया प्रतिमायां श्रीभगवतो दर्शनं कृत्वा अद्य धन्योऽहमभवम् ।” जयपुरेऽन्यत्र च जनसाधारणानां दरिद्रताया असहायतायाश्च दशामवलोक्य स्वामिनो हृदयं वेदना परिपूर्ण जातम् । इमे एव सन्ति जातेर्मेरुदण्डरूपाः, जातीयप्राणाः भविष्यद्-भारत निर्माणकर्त्तारश्च । राज्ञः राज्ञः तत्कर्म- दुर्दशाग्रस्त-मानव - शोचनीयावस्था प्रतिकारायासौ चारिणश्च समुत्तेजितानकरोत् । स च जनजागरणस्य ऋषिः, आर्त्त- बन्धुश्चासीत् । केवलं भारतस्यैव न हि, प्रत्युत सर्वदेशीयानां सर्व- जातीयानां च निर्धनानां कृते तदीयं चित्तमरोदीत् । नासीत् तस्य विशाल हृदये भौगोलिक सीमरेखा । तेन प्रोक्तम्- "भगवान् कुत्रा- न्त्रिष्यते ? दरिद्राः, दुःखिनो, दुर्बला, घृणिताः, अस्पृश्याश्च किं देवा न सन्ति ? प्रथमं तेषामेव पूजनं किं न क्रियते ? वेदान्तस्य जन्म- भूमौ भारतवर्षे जनसाधारणा: युगयुगम् अवहेलितास्सन्ति । तेषां स्पर्शः, सङ्गञ्चापवित्र इति – उद्घुष्यते । निराशाया अन्धकारे तेषां जन्म । तत्रैव तैः निरन्तरं स्थीयते । स्मर्थ्यताम् - दरिद्राणां पर्ण- कुटीरेषु भारतीयजातेर्निवास: । परन्तु हन्त ! तेषां कृते किंचिदपि केनापि न कृतम् । भारतस्योपेक्षिताः कृषकाः, कुविन्दाः, उपानन्- निर्मातार:, मार्जनी-जीविनश्चेत्यादयो निम्नश्रेणयो जना वैदेशिकाना- मुत्पीडनं स्वदेशवासिनामवज्ञां च सहमानाः स्मरणातीतकालात् शान्ताः कार्यं कुर्वन्तः सन्ति । कदापि च तैः तदर्थमुपयुक्त पारिश्रमिकं नाधिगतम् ।”