पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः साधारणदशाया उन्नयनस्य दरिद्रप्रजानां दरिद्रतामोचनस्य तथा तदीय शिक्षायाच* व्यवस्थायै राज्ञो महाराजांश्च नियुक्तानकरोत् । दरिद्रेभ्यः साहसस्य आशायाश्च वाणीमश्रावयत्, भ्रष्टाचारिणी मर्यादा- पूर्णजीवने प्रतिष्ठितानकार्षीत् । पापितापिनां च हताशहृदयेषु अमृतरसं समचारयत् । , १३४

  • शिक्षायाः सम्बन्धे स्वामिन एका सुचिन्तिता परिकल्पना आसीत् - या च

तस्य वाण्या रचनावल्याश्चाभ्यन्तरेऽनुस्यूता परिदृश्यते । तस्य मते शिक्षाया भित्ति- भारतीयभाषा देववाणी चैत्र भवितुमर्हति । संस्कृतभाषाया अभ्यन्तरे सर्वाणि सत्यानि सन्निहितानि सन्ति । अतः तस्याः माध्यमेन अस्माकमानुष्ठानिकधर्म- संस्कृतिशिक्षणन परिणामः शुभः सम्पत्स्यते । • वर्तमानशिक्षापद्धतेः दोषगुणान् विवेचयता तेन प्रोक्तम् – “अस्मिन् देशे प्रचलितशिक्षापद्धतौ केचन समीचीना विषया अवश्यमेव सन्ति, किन्तु तद- पेक्षया बहवोऽधिका भयङ्करदोषाश्च विद्यन्ते । शिक्षयैतया मनुष्या न प्रस्तू- यन्ते, यतोऽसौ सम्पूर्णरूपेण प्रतिषेधमूलक शिक्षा विद्यते, यस्या विषमयफलं मृत्युतोऽप्यधिकं भयजनकमास्ते । तेनान्यदपि प्रोक्तम् यत् – “वर्तमान शिक्षा- पद्धतिः केवलं कर्मकर ( क्लर्क ) प्रस्तुतीकरणाय यन्त्र रूपैव । केवलमिद मेव न हि, तस्याः शिक्षापद्धतेः कुफलं सुदूरं प्रसरति । तस्याः प्रभावतः मनुष्याणां श्रद्धाविश्वासयोः लोपः संजायते ।” शिक्षायाः सम्बन्धे तेनान्यत्रापि प्रोक्तम्- "शिक्षा किं केवलं पुस्तकेन भवति १ न । किमसो विविध विषयाणां ज्ञान- सम्पादयित्री १ न । एतदपि नैव यथार्थशिक्षापदेन बहुशब्दानां संग्रह एव नावधार्यते, बुध्यते मेधादि-मानसिक-वृत्तीनां विकासः ।मनुष्याणाम- भ्यन्तरे या पूर्णता विद्यते तद् विकासस्य नाम शिक्षेति । यस्याः माध्यमेन जोवनं संघटितं क्रियते, मनुष्यत्वस्य विकासो जायते, चरित्रस्य समुन्नतिः सिध्यति । इमे भावाः अस्माभिरवश्यं ग्राह्याः सन्ति । यथार्थतः केनापि ग्रंथागारस्य सर्वाण्यपि पुस्तकानि कण्ठीकृतानि, ततोऽप्यधिक रूपेण त्वं शिक्षितो भवितुं शक्नोषि यदि केवलं पंचानां भावानां हृदये ग्रहणपूर्वकं तदनुसारेण