पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ युगाचार्य-विवेकानन्दः दीवानमहोदयः स्वगृहे स्वामिनं कियहिनानि अवस्थानार्थ न्यवेदयत् । स्वमिना प्रोक्तम् – “पश्यतु दीवानमहोदय, मम संन्निधानेऽनेकविधा मनुष्या: समायान्ति । भवन्तो महत्तराः सन्ति । यदि भवान् धनिनां निर्धनानां पंडितानां मूर्खाणां ब्राह्मणानां चाण्डालानाञ्च सर्वेषां कृते द्वारम् अपिहितं करोतु तदात्र स्थाने निवासे मम काचिदपि आपत्तिर्नास्ति ।” दोवानमहोदयः सानन्दं सम्मतो बभूव | स्वामी तत्र स्थितः । सर्वेभ्यो धर्मोपदेशं ददौ । राज्ये संस्कृतपाठस्य शास्त्रादिप्रचारस्य च व्यवस्था जाता । बहूनां दीनदरिद्राणामभावः दूरीबभूव । अर्थाभावात् कस्यचिद्दरिद्रग्रामीणबालकस्योपनयनसंस्कारो न संपद्यत इति ज्ञात्वा स्वामी तदर्थ मस्थिरतां गतः ।

  • स्वामी संस्कृतभाषाशिक्षायास्तदीय बहुमुखप्रचारस्य च महत्त्वं ददाति

स्म, यतः संस्कृत-शास्त्रे ष्वेव भारतीयधर्म-संस्कृतिमूलस्य तत्त्वं निहितमास्ते । तेन १८६७ ईसवीये मद्रासे अन्तिमभाषणं ददता प्रोक्तम् – “संस्कृत- भाषायाः कठोरतया संस्कृतशास्त्राणां तन्निहिततत्त्वानाञ्च जनसाधारणेवु प्रचलितभाषया शिक्षादानमत्माकमुचितम् । तेन सहैव च संस्कृतभाषायाः शिक्षणमपि प्रचरिष्यति । यतः संस्कृतशिक्षा संस्कृतशब्दानामुच्चारणमात्रेणैव भारतीयजातौ गौरवस्य शक्तेश्च भावो जागत्तिं गमिष्यति । अये निम्नश्रेणयो । मानवाः ! अहं युस्मान् ब्रवीमि भवदीयदशासमुन्नतिसाधनस्यै कमात्रोपायः संस्कृतभाषा शिक्षण मेवास्ते । तदा च तेनैव साकमुच्चवर्णानां शिक्षासंस्कृतिरपि स्वीकर्त्तव्या वर्तते ।” अन्यत्र स्थाने तेन प्रोक्तम् – “स्त्रीषु निम्नश्रेणिजनेषु च संस्कृत शिक्षा- विस्तारः सर्वतः पूर्वमावश्यकः । प्राचोनमहर्षिद्वारा प्रचालितया शिक्षया स्वीयकार्यक्षेत्रे निजादर्श पूर्णरूपेण करायत्तीकृते ते स्वयमेवावधारयितुं शक्ष्यन्ति यत् समाजस्य कुत्र स्तरे तदीयस्थानेन निर्दिष्टेन भाव्यम् । कुत्र कुत्र कार्ये तैः हस्तक्षेपः कर्त्तव्यः । कस्य वा स्वीकारः कस्य वा परिवर्जनमावश्यकमास्ते ।”