पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः ज्येष्ठो भ्राताऽऽसीत् । परिचयः क्रमेण घनिष्ठमित्रतायां परिणतः । तस्य गम्भीरं पाण्डित्यं शास्त्रानुभूतिः, त्यागो वैराग्यं च दीवानमहोदयं विशेषरूपेण प्रभावितमकार्षुः । तेन दृष्टं यदयं साधारणसाधुरिव नास्ति । १२० स स्वेच्छया गङ्गा-भिलाङ्गना-सङ्गमस्थले गणेशप्रयागे तेषां साधन- भजन-व्यवस्थां कतु मैच्छत् । यात्रायाः पूर्णः प्रबन्धो जातः । तदानीमेव स्वामी अखण्डानन्दः पुना रुग्णतां गतः... टेहरीस्थानस्य सिविल सर्जनः रोगिणो वक्षःस्थलं परीक्ष्य जगाद - "ब्रांकाइटिस-नामक रोगो जात, पर्वते निवासः कदाप्युचितो नास्ति । समतलप्रदेशे चिकित्सा - कारयितव्या ।” गुरुभ्रातुः प्राणरक्षायै स्वामी हिमालयस्य निर्जनतां परित्यज्य ‘मुसौरीम्’ ‘राजपुर’ञ्च समुपस्थाय देहरादूनमागच्छत् । राजपुरम्य मार्गे सहसैव स्वामिनो तुरीयानन्देन सह साक्षात्कारो जातः । सोऽपि स्वामिना सार्धं चलितः । रघुनाथभट्टाचार्यः देहरादून- सिविल सर्जनमुद्दिश्य एकं परिचयपत्रमलिखत् । अल्पीयसैव वार्त्तालापेन सिविलसर्जनः स्वामिनो मुखात् धर्म-दर्शन बाइबिलादीनां व्याख्यामाकर्ण्य सविशेष- माननन्द | सिविल सर्जन- चिकित्सया किंचित् स्वस्थीभूतमखण्डानन्दं कृपा- नन्देन सह ‘इलाहाबाद’-स्थितस्यैकस्य मित्रस्य भवने प्रेषयितुं प्रबन्धं विधाय स्वामी अन्यान्यगुरुभ्रातृभिः सह हृषीकेशमाजगाम | प्राचीनकाले तत् किल ऋषीणां मुनीनां च तपस्याया: स्थानमासीत् । हिमालयस्य उपत्यकां परिवेष्टय निर्जनं वनमासीत्, पवित्रगङ्गायाः कलध्वनिरपि अश्रूयत । भिक्षाया उपरि निर्भरा भूत्वा स्वामिना सह ते सर्वे कठोरतपस्यायां न्यमज्जन् । अवसरे च ब्रह्मसूत्रस्योपनिषदां गीतादिशास्त्राणाञ्चालोचनाऽक्रियत | रात्रेः गम्भीरतयैव सह ध्यानस्यापि गाम्भीर्य्यमवर्धत | स्वामी महत्यानन्दे निमग्नो बभूव । परन्तु विधि-