पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः एकेनानिर्वचनीयेन कृष्णदेवस्य चिन्तायां न्यमज्जत् । तस्य चित्तं आनन्देन आप्लावितमभवत् । स हि स्वामिनं परित्यक्तु नैच्छत् ! यतः श्रीठाकुर: स्वामी च परस्परमभिन्नौ । श्रीरामकृष्णस्य नामानि जपतो बलरामबाबूमहोदयस्य १८६० ईसवीयमईमासस्य १३ तारिकायां देहान्तो बभूव । तस्य च सप्तदिनानन्तरं १८६० ईसवीय मईमासस्य २० तारिकायां सुरेन्द्रनाथमित्र-महोदयोऽपि गुरुपदे व्यलीयत । १०९ सुरेन्द्रनाथ: युगावतारश्रीरामकृष्णस्यान्यतमः पोषक आसीत् । एनमेव यन्त्रीकृत्य बराहनगरमठः स्थापितः अभवत् । प्राधान्येन तस्यैवार्थिक सहायतया मठस्य व्ययः प्राचलत्। सुरेन्द्रनाथस्य रुग्णाव- स्थात एत्र मठनिवासिनां जीवनं महता कष्ट न प्रचचाल । एकस्या- नन्तरं द्वितीय विशिष्ट-भक्तस्य देहत्यागेन तदानीं मठस्य दशा शोच- नीयतामगच्छत् । - परन्तु स्वामी कयापि विपत्त्या पराजयस्वीकर्त्ता मनुष्यो नासीत् । अनेकविधं अंशतो प्रयत्नमनुष्ठाय मठस्यात्यधिकचरमदरिद्रताम् दूरीचकार । एतस्य भीषणधनाभावस्य समये संन्यासिनां हृदये वैराग्यतपस्याभावः तीव्रतरो बभूव । । श्रीभगवत उपरि निर्भरतया तदीयं चित्तं परिपूर्णमभूत् । एकस्मिन्दिने सर्वैः संकल्पः कृतः - अद्य कोऽपि भिक्षार्थं न गमिष्यति । यस्य नाम्ना गृहं गार्हस्थ्यं च परित्यक्तं स भोजनं दास्यति न वेति द्रक्ष्यामः । आभ्यन्तरिककपाटं पिधाय सर्वे ध्याने समुपविष्टाः । संध्यापर्यन्तं निरन्तरं ध्यानं प्राचलत् ततः कीर्तनं प्रारब्धम् । कीर्तनस्य भावावेशेन रात्रिं यावत् ताण्डवनृत्यं प्रचलितं बभूव । सर्वे उपवासिनः परन्तु भगवदानन्दे निमग्ना आसन् । निशीथे कश्चित् बाह्यत आगत्य कपाटस्य कीलकं खट्खटायते स्म । द्वारोद्घाटने दृष्ट यत् गोपालमन्दिरात्प्रचुरप्रसादः समागतोऽस्ति । ( स्वामी महोदय आनन्देनोत्फुल्लो भवन् रामकृष्णानन्दमुवाच - "गृहाण,