पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः १०६ समानिनाय । यद्यपि स्वकीयां मुक्तिवार्त्ता' विहाय श्रीराम कृष्णस्या- ज्ञापालनायासौ प्रतिज्ञाबद्ध आसीत्, तथापि सचेतनभावेन न, किंतु तदीयावचेतने मनसि भगवतो लाभस्याकांक्षा तं न न्यूनं व्याकुलत्व- मनयत् । अतो दृश्यते यत् स्वामी विवेकानन्दो जागतिककोलाहल- तो दूरे - हिमालयस्य नीरवतायां नैजमात्मानं निमज्जयितुमनेकशश्चेष्टा- मकार्षीत् । किन्तु श्रीरामकृष्णस्यादृश्या शक्तिर्निर्ममभावेन तमाकृष्य नोचैरवातारयत् । आत्मानुभूतये यावद्वारमसौ हिमालयस्य प्रशांत काननेऽगच्छत् तावद्वारमेत्र कठिनरोगसमाक्रांततया कारणान्तरेण वा नीचैरवतत्तु बाध्यो बभूव । एतद्वयं तदीयपरिव्राजकजीवन- स्यानेकघटनाभ्यन्तरे पश्यामः ।... ९ चित्रं, बराहनगरमठमागतस्य तस्य मानसिक्या अवस्थायाः १८८६ ईसवीयजुलाईमासचतुर्थतारिकायाः पत्रे लभ्यते – “ईश्वरीय मङ्गलहस्ततो मम विश्वासो न गतो न वा यास्यति, शास्त्रेभ्यश्चापि मे प्रत्ययो न व्यपगतः, किन्तु भगवतः समीया पञ्चभिः सप्तभिर्वा वर्षैर्मम जीवनमनेकविधविघ्नबाधासंग्रामेण निरन्तरं परिपूर्णमभवत् । मया शास्त्राणामादर्श: समधिगतः, आदर्शमानवश्च स्वीयनयनाभ्या- मवलोकितः, परन्तु पूर्णरूपेण स्वयं किमपि कर्त्तुं न शक्यते । एतदेव दुःखाकरम् । विशेषतश्च कलिकत्तासमीपनिवासेन कश्चित् साध्यो- पायश्च न विद्यते । पारिवारिकों दुरवस्थामवलोक्य रजोगुणप्राबल्येन अहंकारविकारस्वरूपकार्यकारिण्या वासनाया: समुदयो जायते श्म, तदानीं मनसि भीषणः संघर्षः प्रादुर्भवति । १ श्रीरामकृष्णो नरेन्द्रनाथं मोहविमुग्धमकार्षीत् । तस्य विचार- जगति आमूलपरिवर्त्तनमनुष्टातुं तं किल शारीरिकमानसिकसांसारिक- दुःखकष्टानुभवाभ्यन्तरतः समानेतुं च विशिष्ट प्रयोजनमासीत् । श्रीरामकृष्ण एव विवेकानन्दं विश्वप्रेमिरूपेण संघटितमकरोत् | *

  • एतस्या घटनायाः सम्बन्धे परवर्तिकाले श्रीमान् अरविन्दः “कर्मयोगिन्?