पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः मुखं प्रतस्थे । विशिष्टेन शोकेनाकुलोऽपि शरद्वाचूमहाशयोऽमुं प्रास्थापयत् । परमसौ गुरोर्वियोगं सोढुं न शशाक । अल्पदिवसाभ्यन्तर- मेवासौ स्वकार्यात् त्यागपत्रं प्रदाय बराहनगरमठमुपस्थाय गुरुदेवेना- मिलत् । आचार्यशङ्करेण सत्यमेव प्रतिपादितम्- “क्षणमिह सज्जनसंगतिरेका, १०२. भवति भवार्णवतरणे नौका ।” साधुसंगत्या पारं महत्त्व मास्ते । साधु: स्पर्शमणिरिव भवति, यस्य संस्पर्शतः अयोऽपि सुवर्णायते । शरच्चन्द्रो युवा स्वामिनः संसर्गे समागत्य जीवनस्यानित्यतामवागच्छत् । तस्य मनसि विवेको वैराग्यं चोदयं लेभाते । श्रेयोलाभस्य पन्थास्तेन वृतः । स्वामी एव तदीयजीवन- नौकाकर्णधारो जातः । सर्वत उपरि स्त्रामिनोऽभ्यन्तरे तेन एतादृशस्यै- कस्य अपार्थिवप्रेम्णोऽनुसन्धानमधिगतम्, यस्याकर्षणेन तस्य संसार- बन्धनमत्रुट्यत् ।" बराहनगरमठे स्वामिनं पुन: प्राप्य गुरुभ्रातरो नितरामाननन्दुः । तेन भ्रमणकाले या शिक्षा समधिगता, तया स्वकीयान् गुरुसोदरान् सपरिचयानकार्षीत् । देशस्य प्रणयी स्वाधीनतयाश्च ऋत्विक स्वामी विवेकानन्दो भ्रमणमाध्यमेनावाधारयद् यत् जगतो मङ्गलाय विशेषतो भारतस्य कल्याणाय श्रीरामकृष्णदेवभावधाराप्रचारस्य नितरां प्रयोज नीयता वर्त्तते । तत्कठिनकार्यसम्पादनदायित्वं तमेव निर्विभर्त्ति । तेन प्रतिपादितम् - "श्रीरामकृष्णदेवप्रभावात् आपातविच्छिन्नं भारतं पुनरेकतां गमिष्यति ।” अन्यत्र तेन व्याहृतम् “..श्रीरामकृष्णदेव- चरणसमीपमुपविश्य शिक्षा ग्रहणेनैव भारतमुत्थातुं शक्ष्यति, चतुर्दिक्षु तज्जीवनोपदेशप्रचारोऽवश्यं विधेयः, येन हिन्दुसमाजस्य सर्वाशतः प्रत्येकाणुपरमाणुपु उपदेशोऽसावोतप्रोतभावेन परिव्याप्तोऽभवेत् । क इदं कार्यमनुष्टास्यति ? श्रीरामकृष्णदेवस्य पताकामुत्तोलयन् कः -