पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८८ . याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । (पा०मि.) ननु प्राक्तनेन कर्मादिना वध्यत इत्युक्तं, तन्न युक्त- माघशरीरस्य पूर्वकर्माद्यभावादत आह- .. • अहङ्कारेण मनसा गत्या कर्मफलेन च॥ . - शरीरेण च नात्मायं मुक्तपूर्वः कदा (१)चन ॥१६४ ॥ ___ गतिः संसरणहेतुभूतोदोषसमूहः कर्मणो विहितनिपिद्धस्य फलं धर्माधर्मों। शेषं प्रसिद्धम् । एतस्य जीवः कदाचन न मुक्तपूर्वः, किन्त्वनादिरेव संसार इति शरीरस्याद्यत्वमसिद्धमेवेत्याशयः। चकारेण इन्द्रियसअहः ॥१६४ ॥ __(मिता०) ननु प्राकृतिकप्रलयावसरे महदाखिलविकारविना- शे कर्मणो नाशात्कथं तनिवन्धनःप्रथमपिण्डपरिग्रह इत्याशाङ्याह- ___अहङ्कारेणति । मनोहंकारौ प्रसिद्धौ। गतिः संसरणहेतुभूती दोषराशिः। कर्मफलं धर्माधर्मरूपम् । शरीरं लिगात्मकम्। एतैरहंका- रादिभिरयमात्मा कदाचिदपि न मुच्यते यावन्मोक्षः ॥ १६४ ॥ (वी०मि०) ननु कर्मणा वध्यत इत्यत्र धन्धो दुन्ममरणरूपः, तत्र मरणं न कर्मसाध्यं दुर्भिक्षादावकाले युगपत्लहनसङ्ख्याना- शदर्शनात् कर्मणां च तज्जीवसमवेतानां प्रतिनियत समयविपाक- स्वादत आह- वाधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।। विक्रियाऽपि च दृष्टैवमकाले प्राणसंक्षयः ।। १६५ ।।. वर्तिपात्रतैलानां युगपद्योगाद्दीपसमुदायस्य स्थितियथा, यथा च युगपत्तलाद्यपगमाद्विक्रियाविनाशः। एवं युगपदेव प्रारब्धकर्मव शाजीवलमुदायस्य स्थितिस्तक्षयाच युगपत्सम्पन्नान्मरणजनका. दृष्टानां युगपत्परिपाकाद्वा अकाले प्राणसंक्षयः चकारादेव जीवस्थि. तिसङ्गाहेण उक्तार्थलाभः ॥ १६५ ॥ (मिता०) ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालमेवोप- रतियुक्ता न पुनः संग्रामादौ युगपदकाले प्राणसंक्षय इत्याशझ्याह-- वर्तीति । यथा हि खलु तैलक्लिन्नानेक(२)वर्तिनानां नानास्वा. लानां युगपत्संस्थितिः तासांचं स्थिता(३)नां तदुत्तरं दोधूयमान-- (1) कथंचन-इति मु० पु० पाठः। (२) नेकवर्तिनीना । (३) स्थितानी पटुनरदाधूयमान छ ।