पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८० याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः । कारणान्येवमादाय तासु तास्विह.योनिषु ॥ सृजयात्मानमात्मा च सम्भूय करणानि च ।। १४८ ॥ मृदादीनां संयोगात्परस्परप्रत्यासत्तेर्घटं यथा कुम्भकारः करोति यथा वा तृणादिभिहं गृहकारकः यथा वा हेमकारः केवलं हेम केवलं रूप्यं वा उपादाय कटककुण्डलादि यथा धा कोशकारका कीटविशेषोनिजलालानां परस्परमेलनात् कोशं करोति, एवं सम्भूय कारणानि मिलित्वा कार्यजनकानि करणानि महाभूतान्यादाय इह संसारे तासु तासु तिर्यङ्मनुष्यादिसम्बन्धिपु योनिपु परमात्मा जीवात्मानं सृजतीत्यर्थः । अयमाशयः-न हि कर्ता समवायिकार- णतया अपेक्ष्यते । महाभूतसृष्टावपि तत्समचायिपरम्परा अपेक्षणीयाः सुज्यन्ते एव । न चैवमनवस्था, परमाणुपु नित्येपु स्वस्मिन्या विश्रा. मात् । न च साक्षात्परमाणूनां स्वस्य वा शरीरोपादानत्वं कुतो नेति वाच्यं, स्वभावस्यापर्यनुयोज्यत्वात् । अन्यथा कोशकारः साक्षादेव कोशस्योपादानमस्तु फि लालासमायोजनेनेति किं न पश्यतीति दण्डचक्रोपादानं कारणत्वमात्रेण दृष्टान्ततया। मात्रपदेन समवायि. नोऽवलक्षण्येऽपि निमित्तविशेषाद्विशेषकार्याणामभिप्रेति । आद्यच. कारेण संयोगायलमवायिकारणसमुन्वयः । अन्त्यचकारेण अष्टा- दिनिमित्तकारणसङ्कहः । एवकारेण आदायत्यत्रान्वितेन तन्निरपे. क्षसृष्टिव्यवच्छेदः ॥ १४६-१४८॥ (मिता०) कथमलावात्मा जगत्सृजतीत्याह- मृद्दण्डत्यादि । यथा हि कुलालो मृच्चक्रचीवरादिकं कारणजा. तमुपादाय करकशरावादिकं नानाविधकार्यजातं रचयति । यथा वा वर्धकिस्तृणमृत्का? परस्परसापेक्षा एकं गृहाख्यं कार्य करोति । यथा वा हेमकारकः केवलं हेमोपादाय हेमानुगतमेव कटकमुकुटकु ण्डलादिकार्यमुत्पादयति । यथावा कोशकारकः कीटविशेषो निजला. लयारब्धमात्मवन्धनं कोशाख्यमारभते तथात्मापि पृथिव्यादीनि सा धनानि परस्परसापेक्षाणि तथाकरणान्यपिथोत्रादीन्युपादाय अस्मि- संसारे तासु तासु सुरादियोनिपु स्वयमेवात्मानं निजकर्मवन्धवद्धं शरीरितया सृजति ॥ १४६-१४८॥ ( वी०मि०) नन्वात्मानमित्ययुक्त, भूतमेव चेतनं परमात्मा सृ-