पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... . " यतिधर्मप्रकरणम् । वीरमित्रोदयमिताक्षरासहिता। ८६९ कः संभूतः स रसो देवान् त्यागोंद्देश्यान् सन्तय प्रीणयित्वा यजमानं फलेन संयोज्य सोमं प्रति वायुना नीयते, तेनेष्टेन प्रेरितो.चायुर्ज. लं चन्द्रमसि प्रापयतीत्यर्थः। तत्र सोमदत्तीयैरेव रश्मिभिः किरणैः सौरं धाम सूर्यसम्बन्धि स्थानं तदीयमण्डलं ऋगादिभिस्त्रिभिर्विहितं निष्पादितं प्रतिसर उपनीयते, तेनाऽदृष्टेन प्रेरितं जलं नीयत इत्य. थः । तस्मान्मण्डलादसौ सूर्यस्तस्याऽदृष्टविशेषस्य परिणामरूपमः मृतं जेलं जगन्मूलत्वादुत्तमं सृजति भूमौ वर्षति । उत्तमत्वमेव स्फु. टयति-यधस्माज्जलादर्शनात्मनां भोजनकारिणामात्मनां जगमाः, नामनशनात्मनामनशनकारिणामात्मनां वृक्षसस्यादीनां सर्वेषां भूतानां प्राणिनी जन्म भवति । अथवा भक्ष्याभक्ष्याणां सर्वभूतानां चं यतो जन्मेत्यर्थः । तस्मादृष्टिसम्पादितजलजनितादनात् वीथाः देः पुनर्यज्ञः पुनस्तस्माद्यज्ञादुक्तक्रमेणाऽन्नं तस्मादन्नात् पुनरपि क्रतुर्यज्ञ इत्येवमेतत् संसारचक्र प्रवाहरूपेणाऽऽद्यन्तशून्यं सम्यक् परिवर्तते भ्रमि करोति । चकारेण पित्रादिगमनमुद्दिश्य कृताद्यंज्ञा. जातो रसः पित्रादीन सन्तायेति समुच्चिनोति ॥ १२१-१२४ ॥ (मिता० ) एतदेव प्रपञ्चयति- .. ये इत्यादि । द्रव्यस्य चरुपुरोडाशार्दैवतोद्देशेन त्यागाद्यों रसः अदृष्टरूपमात्मनः परिणत्यन्तरमुत्तमः सकलजगजन्मवीजतयोत्कृष्ट तमः संभूतः सदेवान् संप्रदानकारकभूतान्सम्यक्प्रीणयित्वा यजमानं चाभिलषितफलेन संयोज्य पवनेन प्रेर्यमाणश्चन्द्रमण्डलं प्र(१)ति नीयते । ततः शशिमण्डलाद्रश्मिभिर्भानुमण्डलम् । सैषा त्रय्येव विद्या तपतीत्यभेदाभिधानात् ऋग्यजुःसाममयं प्रत्युपनीयते । ततश्च स्वमण्डलादसौ सूर्योऽमृतरसं वृष्टिरूपमुत्तमं यत्सकलभूतानामश- नानशनात्मनां चराचराणां जनननिमित्तं तत्सृजति । तस्माद्बाप्टिसं. पादितौषधिमयात्प्रजोत्पत्तिहेतोरनात्पुनर्यज्ञो यज्ञाच पूर्वाभिहित(२). भङ्गया पुनरन्नमनाच्च पुनः क्रतुरित्येवमेतदखिलं संसारचक्र प्रवा. हरूपेणोत्पतिविनाशविरहितं. सम्यक्परिवर्तत इत्यनेन क्रमेणात्मनः सकाशादखिलजगदुत्पत्तिः । तत्र चात्मनः स्वकर्मानुरूपविग्रहप. रिग्रहः ॥ १२१-१२४॥ . (१) प्रत्युपनीयते क. I. . .: (२ ) भिहितसंज्ञात्पुनरत्रं क.। .