पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ।.] वीरमित्रोदयमिताक्षरासहिता। ८६५ धिनिष्पादनेन परं ब्रह्माऽधिगछति साक्षात्कोति प्राप्नोति वा । "सामगायमविच्युत'मिति तु शूलपाणौ पाठः ॥ ११२ ॥ .. (मिता० ) यस्य पुनश्चित्तवृत्तिनिराकारालम्बनतया समाधौ ना. भिरमते तेन शब्दब्रह्मोपासनं कार्यमित्याह-- . ___ यथाविधानेनेति । स्वाध्यायावगतमार्गानतिक्रमेण सामगायं सामगानम् । सानो गानात्मकत्वेऽपि गायमिति विशेषणं प्रगीतम- न्त्रव्युदासार्थम् । अविच्युतमस्खलितं, सावधानः सामध्वन्य(१)नु. स्यतात्मैकाग्रचित्तवृत्तिः पठस्तदश्यासवशात्तत्र निष्णातः शब्दा. कारशून्योपासनेन परं ब्रह्माऽधिगच्छति । तदुक्तम्-'शब्दब्रह्मणि नि- bणातः परं ब्रह्माधिगच्छति' इति ॥ ११२ ॥ (वीमि०) सामानभिज्ञस्य मोक्षोपायमाह- अपरान्तकमुल्लोप्यं मद्रकं मकरी(२) तथा ॥ . औरणकं सरोविन्दुमुत्तरं गीतकानि च ॥ ११३ ।। ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका ॥ ज्ञेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम् ॥ ११४ ॥ अपरान्तकादीनि सप्त महागीतिकानि सङ्गीते प्रसिद्धानि । ऋ. गाथाद्याश्चतस्रो गीतिकास्तत्रैव प्रसिद्धाः । एतदुभयविधं शेयम् । तत्राऽभ्यासकरणान्मोक्षसंज्ञितमात्मस्वरूपताचिन्तनेन मोक्षण का. येणं संक्षितं संज्ञावत् मोक्षसाधनेति संज्ञावदिति यावत् । चकारण परस्परसाहित्यं बोधयति ॥११३-११४॥ (मिता० ) यस्य पुनर्वैदिक्यां गीती चित्तं नाभिरमते तेन लौकि- कं गीतानुस्मृतात्मोपासनं कार्यमित्याह- अरान्तकमित्यादि । अपरान्तकोल्लोप्यमद्रकमकोवैणकानि सरोविन्दुसहितं चोत्तरमित्येतानि प्रकराख्यानि संत गीतकानि । चशब्दादासारितवर्धमानकादिमहागीतानि गृह्यन्ते । ऋग्गाथाद्याच. तमो गीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपितात्मभावं मो. क्षसाधनत्वान्मोक्षसंशितं मन्तव्यम् । तदभ्यासस्यैकाग्रतापानद्वारे णात्मैकाग्रतापत्तिकारणत्वात् ॥ ११३-११४॥ (२.).मनुस्मृतात्मैक का (२) प्रकरी-इति मु० पु० पाठ। . ९८