पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५० याज्ञवल्क्यस्मृतिः [प्रायश्चित्ताध्यायः । शतानि नव । धमनीनां नाभेरुद्धस्थानां प्राणादिवाहिनीनां नाडीनां द्वे शते । पेशीनां पिण्डाकारमांसलभागानां शतानि पञ्च । एकोनत्रि- शल्लक्षाणि नव शतानि पट्पञ्चाशच्च तथा शाखाप्रशाखा. भेदेन शिरा धमनिसंशिताः प्रागुक्ता विजानीयात् । एकोनविंशति. लक्षा' इति शूलपाणिना पठितं, लक्षाशब्दः स्त्रीलिङ्ग एवायमिनि व्याख्यातं च। आद्यमध्यचरमचशब्दैः शाखाप्रशाखाभेदविवक्षाम(१). न्तरेणाऽधिकसंख्या चतुर्यु वाक्यार्थेपु व्यवच्छिद्यते। तृतीयचकारण स्नायूनामपि शाखाभेदेन बहुतमत्वं सुचयति ॥ १००-१०१ ॥ (मिता०) किंच- शिरा इति । शिरा नाभिसम्बन्धाश्चत्वारिंशत्संख्या वातपित्ता अलेग्मवाहिन्यः सकलकलेवरव्यापिन्यो नानाशाखिन्यः सत्यः सप्त. शतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसन्धिवन्धनाः स्नायवो नवश. तानि । धमन्यो नाम नाभेरुद्भूताश्चतुर्विशतिसंख्याः प्राणादिवायुः वाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेभ्यः पुनौसलाकारा ऊरु. पिण्डकाद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥१०॥ (मिता० ) पुनश्वासामेव शिरादीनां शाखाप्राचुर्येण संख्यान्त- एकोनेति । शिराधमन्यो मिलिताः शाखोपशाखामेदेन एकोन. त्रिंशल्लक्षाणि । तथा च नवशतानि पटपञ्चाशश्च भवन्तीत्येवं हे सा. मश्रवःप्रभृतयः मुनयो जानीत ॥ १०१॥ त्रयो लक्षास्तु विज्ञेयाः ३मश्रुकशाः शरीरिणाम् ।। सप्तोत्तरं मर्मशतं द्वे च सन्धिशते तथा ॥ १०२ ॥ रोम्णां कोट्यस्तु पञ्चाशचतस्रः कोट्य एव च ।। सप्तपष्टिस्तथा लक्षाः सार्दाः स्वेदायनैः सह ॥ १०३ ॥ वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ॥ यधप्येको नु वेदैपा (क)भावानां चैव संस्थितिम् ॥१.०४॥ (वी० मि०) श्मशूणि मूर्द्धकक्षादिकेशाच मिलितास्त्रयो लक्षा (१) विवक्षासम्भवेनाधिका-इति ख.पु. पाठः। (२) ययप्येकोऽनुवेत्त्येषा-इति मु.पु० पाठः।