पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४६ - “याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः । (वी० मि० ) शरीरग्रहणप्रकारमाह चतुर्दशभिः श्लोकैः- 'सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् ।। सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ७० ॥ आहुत्याप्यायते सूर्यस्तस्मादृष्टिरथोपधिः ।। तदन्नं रसरूपेण शुक्रत्व(१)मुपगच्छति ।। ७१ ॥ स परमात्मा सर्गादिकाले यथाऽऽकाशादीन् पञ्च एकोत्तरगुः णान् यथोत्तरमेकैकाधिकगुणयुक्तान् सृजति, तथा भवन् जीव. भावं गच्छन्नपि तानाफाशादीन् शरीरारम्भार्थमुपादत्ते । गुणाश्च शब्दस्पर्शरूपरसगन्धाः, तेपां चाकांशादीनां शुक्रसाहित्येन शरीरा. रम्भकत्वम् । अभिधान एवाहतिजन्माहटस्यं तदारम्भोपयोगित्व. माह-आहुत्येति । यजमानप्रक्षिप्तयाऽऽहुत्या सूर्य आप्यायते तुः प्यति । तस्मादेव तृप्ताइटिर्भवति । अथ वृऐवज़ह्यादिसस्यरूपीपधि. भवति । तत ओपधेरन्नं भवति । तच्चानं रसरूपण परिणामेन द्वा- रीभूतेन शुक्रशोणित्वमुपगच्छति ॥ ७०-७१ ॥ (मिता०)शरीरग्रहणप्रकारमाह- . सर्गादाविति । सृष्टिसमये स परमात्माः यथाकाशादीन् शब्दै- कगुणं गगनं, शब्दरूपर्शगुणः पवना, शब्दस्पर्शरूपगुणं तेजः, शब्द. स्पर्शम(२)परसगुणवदुदकम्, शब्दस्पर्शरूपरसगन्धगुणा जगती- त्येवमेकोत्तरगुणान् सृजति तथात्मा जीवभावमापनो भवन्नुत्पद्य. मानोऽपि स्वशरीरस्यारम्भकत्वेनापि तानुपादत्ते गृह्णाति ॥ ७० ॥. (मिता० ) कथं शरीराम्भकत्वं पृथिव्यादीनामित्यत आह- __आहुत्येति. यजमानः प्रक्षिप्तयाहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः । सूर्याच कालवशेन परिपकाच्यादिहवीरसादृष्टिर्भवति । ततो ब्रीह्याद्यौपधिरूपमन्नम् । तच्चानं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोणितभावमापद्यते ॥ ७१॥ . . स्त्रीपुंसयोस्तु संयोगे विशुद्ध शुक्रशोणिते ॥ - पञ्चधातून स्वयं पष्ठ आदचे युगपत्मभुः ॥ ७२ ।। - (१) मधिगं०-इति मु० पु० पाठः। (२) रसवदुदकम् ख ।