पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। . . प्रायश्चित्ताध्यायः मित्यत आह-:: ग्रामादिति । ग्रामाद्वा भैक्षमाहत्य, वाग्यतो मौनी भूत्वा अप्टो ग्रासान्भुजीत ! ग्राम्यभैक्षविधानान्मुन्यन्ननियमोऽर्थलतः । यदा पु- नरएमिसिः प्राणधारणं न संभवति तदा 'अष्टौ ग्रासा मुंभक्ष वा. नप्रस्थस्य पोडशेति:स्मृत्यन्तरोक्तं द्रएव्यम् ॥ . . . ..मिता) सकलानुष्ठानासमथै प्रत्याह-~- वायुभक्ष इति । अथवा पायुरेव भक्षों यस्यासौ वायुभक्षा प्रागु- दीचीमेशानी दिशं गच्छेत् । आवर्मसंक्षयात् वर्म घपुस्तस्य नि. पातपर्यन्तमकुटिलंगतिगच्छेत् । यथाह मनुः-(६।३१)-'अपरा- जिता.वास्थाय गच्छेदिशमंजिह्मगः इति । महाप्रस्थानेऽप्यशक्तों गुपतिनादिकं वा कुर्यात् । धानप्रस्थो वी(१)राध्वानं ज्वलनाम्वुप्र- वेशनं भृगुपतनं वानुतिष्ठेत्' इति स्मरणात् । स्नानाचमनादिधर्मा ब्रहाचारिप्रकरपााभिहिताश्चाविरोधिनोऽस्थापि भवन्ति । 'उत्तरेपा चैनदविरोधि' इति गौतमस्मणात् । एवं प्रागुदितैन्दवादिदीक्षाम: हाप्रस्थानपर्यन्तास्तनुत्यागान्तमनुतिष्ठन्ब्रह्मलोके पूज्यतां..प्राप्नोति। यथाह मनुः (६३२)-'आसां महर्पिचर्याणां त्यक्त्वाऽन्यतमया त. नमें पीतंशोफभयो विप्रो ब्रह्मलोके महीयते ॥ इति । ब्रह्मलोकर स्थानविशेपो न तु नित्यं ब्रह्म । तत्र लोकशब्दस्याप्रयोगात् । तत्र तुरीयाश्रममन्तरेण मुफ्त्यनङ्गीफाराध । न च 'योगाभ्यासेन वा पुनः' इति ब्रह्मोपासनविध्यनुपपत्त्या तद्भावापत्तिः परिशनीया। सालो. फ्यादिप्राप्त्यर्थत्वनापि तदुपपत्तेः । अत एव श्रुतौ 'यो धर्मस्कन्धा" इत्युपगम्य 'यशोऽध्ययनं दानमिति प्रथमः, तप एवेति द्वितीयः, न. स्मचर्याचार्यकुलवासी तृतीयः। अत्यन्तमाचार्यकुल पवमात्मानमव. सादयनिति गाईस्थ्यवानप्रस्थनैष्ठिकत्वस्वरूपमभिधाय .सर्व एते पुण्यलोका भवन्तीति त्रयाणामाश्रमिणां पुण्यलोकप्राप्तिमभिधाय 'ब्रह्मसंस्थोऽमृतत्वमेति' इति पारिशेप्यात्परिव्राजकस्यैव ब्रह्मसंस्था स्य मुक्तिलक्षणामृतत्वप्राप्तिरभिहिता । यदपि श्राद्धकृत्सत्यवादीच गृहस्थोऽपि विमुच्यते' इति गृहस्थस्यापि मोक्षप्रतिपादनं तद्भवा. न्तरानुभूतपारिखज्यस्येत्यवगन्तव्यम् ॥ ५५ ॥ .. इति धानप्रस्थधर्मप्रकरणम् । १) वीराधानं । .