पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपद्धप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८२१ (मिता०) पूर्वोक्कनिषिद्धातिक्रमे दोषमाह- . लाक्षेति । लाक्षालवणमांसानि विक्रीयमाणानि सद्य:पतनीयानि 'द्विजातिकमहानिकराणि । पयःप्रभृतीनि तु हीनवर्णकराणि शूद्र। तुल्यत्वापादकानि । एतद्यतिरिक्तापण्यविक्रये वैश्यतुल्यता। यथाह मनुः (१०।९२-९३)–सद्यः पतति मांसेन लाक्षया लवणेन च । यहण शुद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ इतरेषामपण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं (१)च गच्छति॥ इति ॥ ४०॥ (मिता०) किञ्च- ___ आपद्गत इति । यस्त्वधनोऽवसन्नकुटुम्वतया आपद्गतोऽपि क्षत्रवृत्ति वैश्यवृत्ति वा न प्रविविक्षति स यतस्ततो (२)हीनहीनत- भेभ्यः प्रतिगृहंस्तदन्नं भुजानोऽपि (३)वा एनसा पापेन न लिप्यते। यतस्तस्यामापदवस्थायामसत्प्रतिग्रहादावधिकारित्वेन ज्वलनार्क समः, यथा ज्वलनोऽर्कश्च हीनसङ्करेऽपि न दुष्यति तथायमाप. गतोऽपि न दुष्यतीत्येतावता तत्साम्यम् । एवं च वदता आपद्तस्य परधर्माश्रयणाद्विगुणमपि स्वधर्मानुष्ठानमेव मुख्यामिति दर्शितं भवति । तथा च मनुः (१०।९७)--'वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्माश्रयाद्विप्रः सद्यः पतति जातितः ॥ इति ॥४॥ कृषिः शिल्पं मृतिविद्या कुसीदं शकटं गिरिः॥ सेवाऽनूपं नृपो भैक्षमापत्ती जीवानानि (४)च ॥ ४२ ॥ (वी० मि.) कृप्यादीनां मध्ये अनापदि यस्य या वृत्तिः प्रति- षिद्धा तस्याऽपत्तौ विपत्काले मासं जीवनोपाय इत्यर्थः । पूर्व वैश्यवृ- त्तिशब्देन वाणिज्यमात्रमभिहितमतः कृषिरिहाभिहिता । शिल्पं चित्रादिककर्म, भृतिः व्यवस्थापितवेतनेन परप्रैष्यत्वं, विद्या गारु- डादि, कुसीदं वृद्धयर्थ द्रव्यप्रयोगः, शकटं परकीयभारोद्वहनकारि, गिरिविक्रयार्थाहरणीयतृणादेराधारः, सेवा वेतनव्यवस्थां विना परचित्तानुवर्तनम्, अनूपं प्रचुरतृणजलवृक्षमयोगवादिपालनोपयो- गो. देशः, नृपः निन्दितप्रतिग्रहदानदाता, भैक्षं भिक्षासमूहः क्षत्रि. (१) निगच्छति ख.। (२) हीनतरस्ततो ख.। (३) षा नैङ्कनसा ख. । (१) तु-- इति मु० पु० पाठः।