पृष्ठम्:मालविकाग्निमित्रम्.djvu/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
॥ मालविकाग्निमित्रम् ॥
प्रतीहारी । प्रविश्य । १जेदु भट्टा । णिवुत्तविसवेओ गोदमो
पकिदिथ्थो एव्व संवुत्तो ।
देवी। २दिट्ठिआ वअणीआदो मुत्तम्हि ।
प्रतीहारी । ३एस्सो अमच्चो वाहदवो विण्णवेदि. । राअकज्जं
बहु मन्तिदव्वं । तां दंसणेण अणुग्गहीदुं इछ्छामित्ति । 5
देवी । ४गछ्छदु अज्जउत्तो कज्जसिध्धीए ।
राजा । देवि आतपाक्रान्तोयमुद्देशः । शीतक्रिया चास्य
प्रशस्ता । तदन्यत्र नीयतां शयनीयम् ।
देवी । बालिआ अज्जउत्तवअणं अणुचिठ्ठह ।
परिजनः । ६तह ।
[ इति निष्क्रान्ता देवी परिव्राजिका परिजनश्च ।
राजा । जयसेने गूढपथेन प्रमदवनं प्रापय ।
प्रतीहारी। ७इदो इदो देवो ।
राजा । जयसेने ननु समाप्तकृत्यो गौतमः ।

१. जयतु भर्ता । निवृत्तविषवेगो गौतमः प्रकृतिस्थ एव संवृत्तः ।
२. दिष्ट्या वचनयान्मुक्तास्मि ।
३. एषोमात्यो वाहतवो विज्ञापयति । राजकार्ये बहु मन्त्रितव्यम् । ::तद्दर्शनेनानुग्रहितुम्
[i.e. दर्शनानुग्रहम्] इच्छामीति ।
४. गच्छत्वार्यपुत्रः कार्यसिद्ध्यै ।
५. वालिका आर्यपुत्रवचनमनुतिष्ठत ।
६. तथा ।
७. इत इतो देवः।

1. F ' निव्वुत्तविंस°.
4. B C D वाहदव्वो.-B राजकज्जं.
5. A C अणुगहिदुं
6. D E F अ-अ°
9. B वालिअ F वालिसा (= वालि
शाः):-D E F अ-अ.