पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । "अद्वैतगव महतः प्रमातुः को नाम मिथ्या भवति अपने स्वयंवरे ते परिपन्थिवर्गे किं तज्जिंगीपोरसहायशौर्यम् ॥" इति च ॥ ३० ॥ ननून्मेष एव निमेषो निमेष एत्रोन्मेषो विश्वस्य विश्वोत्तीर्णस्य चेति महत्येषा व्याहतिरित्याशङ्कयाह AURELICON तिउडिमअं खु समत्थं तत्थ अ णेअम्भि गाउए अ समं । दिडगण्ठी गाणकळा कळे तेशनेलं ॥ ३१ ॥ त्रिपुटीमयं खलु समस्तं तत्र च शेषे ज्ञातरि च समम् । प्रन्थिनकला कलयति नैलोक्यमेकलम् || इति । विश्वव्यवहारे वादिनां सर्वोऽपि वचनपरम्पराप्रपञ्च ज्ञाता ज्ञानं ज्ञेयमित्येवरूपपुटत्रय समाहारात्मन्यर्थतस्ये पर्यवस्यति । यद् गुरु- मतानुसारिणः स्पष्टतोत्कर्षादन्योन्यनिर्विशेषं साकल्येन प्रत्यक्षतयाचक्षते । पुटत्वं चैषामशेषविश्वक्रोडीकारसामर्थ्यात् । तत्र च त्रिपुट्यामन्तरालव- तिनी या ज्ञानकला चिडक्तिः, सा खलु " वेद्यमेतदखिलं स ईश्वरो वेदिता यदनयोः स्वलक्षणम् । त्वामृते सुमुखि ! वित्तिमन्तरा का नु तद् घटयितुं प्रगल्भते ॥" इति श्रीकोमलवल्लीस्तव स्थित्या विषयतयावरोध्यं वेधवर्ग भोक्तृतया स्फु रन्तं वेदितारं च प्रति समं विशेषराकाशून्यं यथा भवति तथा दृढग्रन्थिः कोटिद्वयावगाहेन तादात्म्येनोपश्लेषाद् वज्रलेपनदमकम्प्यसम्बन्धा भवन्ती त्रैलोक्यमेकल मेकत्वभावं कलयति । स च स्वभावः वेद्यं वित्तिर्वेदितेति, स्थूलं सूक्ष्मं परमिति, जाग्रत् स्वप्नः सुषुप्तमित्यादिना त्रैविध्येनाप्युपपद्यते । दृढग्रन्थिरित्युक्तत्वात् । सम्बन्धं प्रत्यदायंशङ्कायां हि एकमन्यस्माद् भि घेत । तच्च न संभवतीति । त्रैलोक्यपदेन "देवानां त्रितयं त्रयी हुतभुजां शक्तित्र्यं त्रिस्वरा- स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णालयः | 1. 'ज्जिहीर्षोर' ख. पाठः. २. 'वे' क. ग. पाठः ३. 'वे' क. पाठः,