पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदना |

परिमलाख्यव्याख्यानसनाथेयं महार्थमञ्जरी शैवदर्शनविशेष कम प्यधिकृत्य प्रवृत्ता । स हि प्रत्यभिज्ञाशास्त्रं संवित्तन्त्रम् औत्तराद्वैतमिति चात्र व्यवहृतः । एकसप्तत्या प्राकृतगाथाभिर्यो मूले तन्त्रार्थ: संक्षिप्तः, स परिमले वितत्य वर्णितः । एतत्तन्त्रसम्प्रदायस्य काश्मीरोद्भूतत्वम् अत्राभिहितम् । अयं तन्त्रमार्गः काश्मीरिकैराचार्यैः सन्निबन्धविधिना परां प्रतिष्ठां नीतः । एष हि भगवत्सोमानन्दनाथपादैः शिवदष्टिशास्त्रे आसूत्रितः, तच्छिप्य- श्रीमदुत्पलाचार्यैः प्रत्यभिज्ञासूत्रतत्यादौ प्रकाशितः, उत्पलाचार्यान्तेवा- सिलक्ष्मणगुप्तशिष्यैः कैस्ताब्दीयदशमशतकस्थितैः श्रीमदभिनवगुप्ताचार्यै: प्रत्यभिज्ञासूत्रविमर्शिनी - प्रत्यभिज्ञावृत्तिविमर्शिन्यादौ विस्तरेणोपपादितः । महार्थमञ्जर्याः परिमलस्य च प्रणेता महामकाशशिष्यः तत्रभवान् गोरक्षो नाम, यस्य महेश्वरानन्द इत्यपरं देशिकदत्तं पूज्यनामधेयम् । अभिनवगुप्ताचार्यच्छायानुकारधन्यं किमपि लोकोत्तरमस्य विद्याविचक्षणत्वं ग्रन्थे प्रकाशते । अयमात्मनः साहित्ये प्रत्यभिज्ञातन्त्रे च निपुणताम् अभि- नवगुप्तनाथपादकृतिपरिशीलनेन सिद्धामाचष्टे । अस्य जीवितसमयो न निष्कृष्य ज्ञातः । एतस्य एतद्गुरोश्च चोलदेशो जन्मभूमिरिति ग्रन्थतो विज्ञायते । उक्तमन्यच्च ग्रन्थसंबद्धं वस्तु तन्त्रायातिकथाप्रसङ्गे व्याख्या- शेषे स्पष्टम् | इति । गोरक्षेणात्मीयतया परिमले भणिताः कृतय एता भवन्ति - महार्थमञ्जरी परास्तोत्रम् परिमल: सूक्तम् पादुकोदयः महार्थोदयः संबिदुल्लास: कोमलवल्लीस्तवः. कुण्डलाभरणम् मुकुन्दकेलिः १९३ तमं पृष्ठं दृश्यम् ।। २०२ तमं पृष्ठं द्रष्टव्यम् | १९५-२०१ पृष्ठानि दृश्यन्ताम् ।