पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4x महार्थमञ्जरी नत्वा नित्यशुद्धौ गुरोचरणौ महाप्रकाशस्य | ग्रथनाति महार्थमञ्जरीमिमां सुरभिं महेश्वरानन्दः ॥ इह खलु सर्वस्यापि जनस्योपास्यतया काचिद् देवतास्त्येवेत्य- त्राविप्रतिपत्तिः । केवलं तस्या नामरूपादिव्यपदेशमात्रे वैषम्यम् | सा च युक्तिपर्यालोचनायां स्वात्मसंवित्स्फुरत्तामात्रस्वरूपेति प्रकाश एव विश्वोपास्या देवतेत्यापतितम् । तस्य च महत्त्वं "सा स्फुरत्ता महासत्ता देशकालाविशेषिणी । सैषा सारतया चोक्ता हृदयं परमेष्ठिनः ॥” इति श्रीप्रत्यभिज्ञानीत्या सर्वसङ्कोचोल्लङ्कितया स्फुरत्तकस्वरूपत्वम् । स च गुरुः गृणाति प्रकाशयति विश्वव्यवहारमिति निरुक्त्या सर्वानुग्रा- हकः । तादृक्प्रकाशकव्यतिरेके विश्वस्यान्धबधिरतादिप्रायतापत्तेः । स च पर्यन्ततः परमशिवभट्टारकापरपर्यायः खात्मरूपो महान् प्रमाता । यदुक्तं श्रीशिवसूत्रेषु – 'गुरुरुपायें' इति । तस्य चरणौ ज्ञानक्रियालक्षणं स्वातन्त्र्यं चर्यते गम्यते प्राप्यते बुध्यते भक्ष्यते चाभ्यां विश्वमिति हि चरणावित्युच्येते । यदुक्तं श्रीकुब्जिकामते - "भोग्यभोक्तृषु भावेषु मिषत्स्वनिमिपत्सु च । देशकालदिगाख्येषु स्थूलसूक्ष्मपरेषु च ॥ सत्तास्फुरणकव्याप्ता गतिभक्षणयोगतः । कर्मणा चरणाख्येयं न तु पादतया प्रिये ! ॥" इति । तृतीयस्तु चरणः साक्षाद् गुरुः स्वलक्षण एवेति द्विवचनेन व्या- ख्या । यदुक्तं तत्रैव “सितो वामेऽरुणो दक्षे वराभयकरो गुरुः । प्रेताम्बुजगतोऽङ्कस्थरक्तशक्तिस्त्रिलोचनः ॥ पञ्चमुण्डधरः स्रग्वी हृदि ध्येयः स्मिताननः ।" १. 'स्वभाषेति', २. 'नीति' ग. पाठः ३. 'शव्य' क. पाठ, ४. 'यः । त', ५. 'नः । अ' ग. पाठः.