पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । “अन्यैरावारकत्वेन ये भावाः परिवर्जिताः । तैरेव ज्ञानिनामर्थं जाज्वलीति परा चितिः ॥" इति । प्रपब्चितप्रायं चैतत् प्रागेवेत्यलं रोमन्थेनानुबन्धेन । भ्रमतेत्यादि- लोदप्रत्ययेन "तातेति किञ्चित् तनयेति किन्चि- न्ममेति किञ्चिन्न ममेति किञ्चित् । तवेति किञ्चिन्न तवेति किञ्चिद् भौत॑ स्वयं बहुधामालपेस्त्वम् ॥” १८३ इति श्रीमदालसोक्तियुक्त्या मायाव्यामूढचेतसं पशुजनं प्रति शोचनीयता द्योत्यते । इन्तेत्यनेन तु तन्त्रकृतस्तदपरिसृज्यमन्यं जनं प्रत्यमन्दः कारु- ण्योत्कर्ष इति ॥ ६९ ॥ T अथास्मत्प्रसाधितमोत्तर मर्थतत्त्वमेवान्येषां व्यासादीनामपि महामु- नीनामन्तरनुसन्धेया देवता, येन तत्प्रणीतेषु प्रबन्धेषु तात्पर्यपर्यालोच- नायां महता कण्ठेनैतदेवार्थरहस्यमुद्धाट्यते । यथा भगवद्गीतासूपनिष- त्स्वित्युच्चावचस्यास्य प्रपञ्चवैचित्र्यस्य श्रीमदनुत्तराम्नायसमुद्रशीकरोप- स्नेह एवानुप्राणन तयावतिष्ठत इत्यासूत्रयितुमाह - - एणं चेअ महत्थं जुत्थारम्भम्मि पण्डुउत्तस्स । छोळहसहस्ससत्ती देवो उबदिसइ माधवो त्ति सिवं ॥७०॥ एनमेव महार्थ युद्धारम्भे पाण्डुपुत्रस्य । षोडशसहस्रशक्तिर्देव उपदिशति माधव इति शिवम् ।। योऽयं महाप्रबन्धेनोपक्रान्तो "भावार्थः सम्प्रदायॉर्थोऽग्निगर्भार्थश्च कौळिकः तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ॥ " इत्याम्नायस्थित्या तत्चदशेषार्थतत्त्ववैचित्र्यसमष्टयधिष्ठानरूपतया महान् सर्वार्थभेदप्रभेदक्रोडीकारविचक्षणोऽर्थः प्राप्यं तत्त्वं, यश्च १. 'न्यानुमन्थेन', २. 'भे', ३. 'तमनुत्त' क., 'तमनुत्तरं तत्त्वं' ख. पाठ... 'महता प्र', ५. 'यो' ख. ग. पाठः