पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । इति च । योगिदृष्ट्या तु धारणाव्यानसमाधिरूपाण्येतानि । यानि चित्तस्य देशबन्धो धारणा, तत्तत्प्रत्ययप्रवाहो ध्यानं, वेद्यवेदकभावादिविगलनं समाधिरित्यागमेषु लक्ष्यन्ते । तुरीयं पुनः सर्वयोगिन्ययोगिन्यप्येकरूप- तयावतिष्ठते । केवलं तादृपरामरीक्षमत्वमेव योगिनो विशेषः | तुरीयं च नाम " त्रिषु चतुर्थ तैलवदासेव्यम्” इति श्रीशिवसूत्रस्थित्या जाग्रदा - यवस्थात्रयानुवृत्ता महास्फुरत्ता । उपलक्षणं चैतत् । यत एकस्मिन् द्वितीयं, द्वयोस्तृतीयं, त्रिपु चतुर्थ, चतुर्षु पञ्चममित्यस्यर्थस्यावश्यम्भावः । तत् पुनरौपदेशिकतया सूत्रे संगृह्योक्तम् । एषां च पर्वणां या परिपाटिः अन्योन्यरूपत्वे व्यवस्थात्मकत्वादेकरूपता, तां व्याख्यातस्वभावों योगी मौक्तिकमाणिक्याद्यनेकरत्नशालिनीं हारयष्टिमिव विमर्शाख्येन सर्वानुप्रवे- शप्रगल्भेनैकेन तन्तुना संकलितां कुर्वन्नुहति लौकिक प्रस्थानोल्लङ्घिना केनचिदुत्कर्षेण प्रापयति तत्तत्स्वरूपतापरामर्शेन स्वात्मन्यवस्थापयति । तत्र च लौकिकानामपि साधारणमवस्थात्रयमतिक्रम्य परमप्रमातृरूपतु- र्यातीतस्वभावतयावधार्यमाणं तुर्यमेवात्र विमर्श इत्याख्यायते, येन स्रक् सूत्रन्यायादवस्तनमवस्थात्रयं क्रोडीक्रियते । तत्रापि जाग्रदादिसाहचर्या - क्रान्तस्याङ्गस्य प्रमातृस्वरूपानुप्रविष्टेनांशेनानुसन्धीयमानतया क्रोडीकार्य- त्वं क्रोडीकरणत्वं चेत्युभयमपि सङ्गच्छते । तथाहि - जाग्रदादिषु चतसु- ध्ववस्थासु जायज्जाग्रत् जाग्रत्स्वप्नो जाग्रत्सुपुप्तं जाग्रत्तुरीयमित्यादिना रूपेण परस्परानुवेधः प्रतीयते । तत्राबुद्धं बुद्धं प्रबुद्धं सुप्रबुद्धमिति जाग्र तश्चत्वारो भेदाः । " गतागतं सुविक्षिप्तं संगतं सुसमाहितम्" इति स्वप्नस्य उदितं विपुलं शान्तं सुप्रसन्नमिति सुपुप्तस्य | तुरीयस्य तु "नैतस्यामपारा तुर्यदशा संभाव्यते किल" इति श्रीतन्त्रालोकस्थित्या मनोन्मनमनन्तं सर्वतोभद्रमिति त्रयो मेदाः । तुर्यातीते च 66 १. 'नीति या', २. 'इतीय' क. पाठ:. ३. 'च्य' ग. पाठः, क. पाठः ५. 'किकसा' ग. पाठ:. ६. 'नन्तरं स' ख. पाल: ४. 'स्याव'