पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० महार्थमञ्जरी पारिशेष्यलक्षणायामवस्थायामुपायत्वमेव पर्यवस्यति । तद्व्यतिरेके पुन- रुपायस्फुरताया एवासंभवात् । यदुक्तं श्रीतन्त्रालोके - "यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन | स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक् कथम् ||" इति । श्रीतन्त्रवटधानिकायां च - "उपायैन शिवो भाति भान्त्यमी तत्प्रसादतः स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः ॥” इति ।। ५९ ॥ अर्थत्यमुपदिष्टोपायप्रपञ्चमतिलब्धात्मस्वरूपपरामर्शमां सळोल्लासानां योगिनामतिशयमाख्यास्यन्नादावेषामन्तर्बहिःस्वभावदशावच्छेदव्युदासनि- र्यन्त्रणं नैश्चिन्त्यं निश्चेतुमाह - अविआरोहअपासे चासअवेहुणसरिश्शए अत्थे । अन्तोत्तो जोई बाहिरहुत्तो ति कप्पणा कत्तो ॥ ३० ॥ अविकारोभयपार्श्वे चाषपिञ्जसहक्षेऽर्थे । अन्तर्मुखो योगी बहिर्मुख इति कल्पना कुतः || इति । अर्ध्यते सर्वैः प्राप्यत इत्यर्थः । स्वात्मरूपं किञ्चिदलौकिकं त- त्त्वम् । तत् खलु मयूरपिञ्छवैलक्षण्येन चापवईवद योरपि भागयोरेकरू पतयावधार्यते । चाषमयूरपक्षप्रक्रिया तु लोकप्रसिद्धा । उक्तरूपस्य चा- र्थस्यैतदेव पार्श्वद्वयं यदहन्तेदन्तयोरौचित्यादन्तर्बहिर्भावेनास्य द्विधावभा- समानत्वम् । तद्व्यतिरिक्ता च नान्या देशस्फुरत्तास्ति, पौरस्त्यपाश्चात्यरू- पाया अप्यस्या एतदन्तर्भावेनोपलभ्यमानत्वात् । तयोश्च पार्श्वयोः स्थूल- ष्ट्यवष्टम्भोपकल्पितो यो विकारो वेद्यवेत्तृत्वादिव्यवस्थानिबन्धनो वैषम्या- नुभवः, स वस्तुवृत्त्यालोचनायामनौचित्यसरणिमनुसरतीत्यविकारत्वम् । € "श्वस्य रू', २. 'रोवह' ग. पाठ:. ३. ‘र्य' क. ग. पाठ:. ४. 'पस्यार्थस्य' क, ख, पाठः, ५. 'दन्तौचि' ख., 'दन्तयोरन्न' ग. पाठः. क. ख. पाठः.