पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी ब्रह्मस्वरूपमेवाविभिन्नमध्यक्ष्यत इति । अन्यथा 'नेह सत्यमस्ति किञ्च- ने'ति श्रूयेत, शून्यवादो वा प्रसज्येत । नापि तृतीयः । उक्तेनैवागमेन विगीतं मिथ्या दृश्यत्वात् शुक्तिरजतवदित्यादेर्लिङ्गस्य कालातिकान्त- त्वात् । एवमसिद्ध्याद्यप्यूह्यम् | ग्रन्थगौरवभयात् तु तन्न वितन्यते । अपि च ब्रह्मण्ययं प्रपञ्चः केन प्रमात्राध्यारोप्यते । तेनैव ब्रह्मणेति चेत् तर्ह्य- नधिष्ठानभ्रमत्वप्रसङ्गः तस्यारोपकतया स्वीकृतत्वात् । अंशतोऽस्य तदु- भयार्थनिर्वाहकत्वमिति चेत् | नै । तथापि तस्य भ्रान्तिमत्त्वप्रसङ्गात् । अस्तु तर्हि जीवात्मनोऽध्यारोपकत्वं ब्रह्मणश्चाधिष्ठानत्वमिति चेत् । न । भेदवादस्यानभिमतत्वात्, अंशत आत्माश्रयत्वावश्यम्भावाच्च । ननु काल्पनिको भेदः स्वैरं स्वीक्रियत इति चेत् । न । तस्यैव विवर्तशब्देना- भिधातुमुपक्रान्तत्वात् । किञ्च कीदृशेन सादृश्येन ब्रह्माण प्रपञ्च आरो- प्यते । तदुपेक्षायां च कथं नातिप्रसङ्गः । ब्रह्मप्रपञ्चयोश्च सत्यासत्यादि- विभागवशाद् वैसादृश्यमैतिप्रसिद्धम् । विश्वस्मिन् ब्रह्मारोप्यत इति तु प (क्षः क्षोऽ) प्रसिद्धो मर्यादातिक्रान्तत्वाद् ब्रह्मणो मिथ्यात्वप्रसङ्गाञ्चाय- न्ततुच्छतया निश्चेतव्यः । अतश्च वैचित्र्येणोक्तप्रकारप्रतिबिम्बनस्वभावेन वर्तनं विश्वस्य विवर्त इति व्याख्यायां न किञ्चिदनौचित्यम् । यथा श्रीक्रमकेळौ . - १.५६ १ - . "तद्विवर्तः स्मृतो रश्मिपुञ्ज क्रेशिपूर्वकः" (?) CA इत्यत्र व्याख्यातं - विवर्ती विचित्रेण रूपेण वर्तनं न त्वविद्यावशात्, अपि तु स्वातन्त्र्यत इति । एतेन प्रसिद्धसत्त्वासत्त्वताटस्थ्यशालिन्या सं- वित्स्वातन्त्र्यमय्या महासत्तया विश्वव्यवहारस्य निर्वचनीयत्व नैयत्यादेत- द्विपर्ययात्मा तस्यानिर्वचनीयत्वपक्षोऽप्यपहस्तित एव स्यात् । एवं परि- णामेऽपि वाच्यम् । परिणामो हि क्षीरादेः पूर्वाकारविनाशाद् दध्यादिरू- पतत्सदृशान्याकारंपरिग्रहः । तत्रापि किं ब्रह्म विश्वतया परिणमति, उत विश्वं ब्रह्मतयेति प्रष्टव्यम् | नाद्यः । ब्रह्मणः स्वरूपनाशप्रसङ्गात् । न 9. 'न । भेदवादस्य' ख. पाठ:. २. 'मि', ३. 'त्सादृश्यान्या' ग. पाठः ४. 'ते' क. ग. पाठः,