पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सहार्थमञ्जरी “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाध्ते । " इंति नीत्या सर्वोऽपि प्रमातृस्वभावः पर्यन्ततो वाङ्मयतां नोल्लङ्घय- ति । ततश्च प्रकाशरूपस्यात्मनो विमर्शशक्तिरेवानुप्राणनम् । सा च मंत्रजपपूजाघनेकशब्दव्यपदेश्या भवति । केवलं तत्तद्वारमात्रमेव भेद इति ।। ५० ।। अथ मन्त्रसाहचर्यान्मुद्राप्यलौकिकी काचिदनुसन्धेयेत्याह आणन्दुळ्ळासतिरी छुळदेमहासिद्धिसोहग्गा । दीसह जत्थ दसाए सोचिअ देवस्स सव्वमुद्दाओ ॥ ५१ ॥ आनन्दोल्लासश्रीः क्षुल्लकिताष्टमहासिद्धिसौभाग्या । दृश्यते यत्र दशायां सैव देवस्य सर्वमुद्राः || इति । यस्यामवस्थायां देवस्यै क्रीडाविजिगीषायनेकप्रकारस्वात- न्यसारत्वात् पूज्यपूजकत्वोभयस्वभाव सामरस्यशालिनः परमेश्वरस्य स्ववि. श्रान्तिलक्षणमानन्दं प्रति य उल्लासः तथा पराभृश्यमानतया स्फुरत्ता तस्याः श्रीः तद्वदुपर्युपर्यनुस्यूतिलक्षणा प्ररूडिदृश्यते निर्विवादमपरोक्षीक्रियते, सैव सर्वा: करङ्किण्यादयः संक्षोभिण्यादयोऽन्यथा वा प्रसिद्धास्तास्ता मुद्रा इत्यवगन्तव्यम् । तया चानन्दोल्लासश्रिया क्षुल्लकिताष्टमहासिद्धि- सौभाग्यया भाव्यम् । लोके हि खड्गगोरोचनोद्दिष्टपातालप्रभृतयोऽपि विभूतिस्पन्दाः सिद्धय इत्युच्यन्ते । तदपेक्षया किञ्चित् सङ्कोचशून्यत्वा- दणिमादिशक्तीनां महासिद्धत्वम् । तासां चाष्टकत्वं तत्तत्साधकजनहृ- दयोल्लासरूपाणां चिदानन्देच्छाज्ञान क्रियानुभव स्मृत्यपोहनानां धर्माणां ब्राह्मचादिमात्रष्टकॉधिष्ठानद्वारा वहिविभूतिरूपत्वात् । यदुक्तमागमे - "वर्गानुक्रमयोगेन यस्यां मात्रष्टकं स्थितम् । वन्दे तामष्टवर्गोत्थमहासिद्धयष्टकेश्वरीम् ॥” इति । यद्यपि सर्वत्र सामरस्यादेतदष्टकानुप्रवेशः, तथापि क्वचित् कस्य- चिदौलवण्यावश्यम्भावादष्टेमहासिद्धय इति प्रसिद्धिः । तत्र स्वशरीरं १. 'इत्यादिनी' ग. पाठः, २. 'अट्ट' क. ग. पाठः, ३. 'स्य क्रियावि' क. ४. 'कार्यानद्वा' ग. पाठः, ५. 'टगुणस' . पाठः पाठ..