पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपता । यानुभूतिः स्वहृदयैकसंवेद्या विमर्शशक्तिः, सैव मन्त्र इत्यस्य शब्दस्याभि- धेयतयानुभूयत इति । यथा श्रीराजराजभट्टारके "वर्णात्मको न मन्त्रो दशभुजदेहो न पश्चवदनोऽपि । सङ्कल्पपूर्वकोटौ नादोल्लासो भवेन्मन्त्रः ॥” इति । यथा च श्रीविज्ञानभट्टारके F "भूयो भूयः परे भावे भावना भाव्यते हि या । जपस्तोत्रं स्वयं नादो मन्त्रात्मा जप्ये ईदृशः ||" GEERTYDS इति । यथा च श्रीशिवसूत्रेषु - 'चित्तं मन्त्रः' इति । श्रीस्तोत्रभट्टा- रकेऽपि - "चिदग्निसंहारमरी चिमन्त्रः संविद्विकल्पान् ग्लपयन्नुदेति" इति । श्रीक्रमकेळौ च " सेयमेवंविधा भगवती संविद्देव्येव मन्त्रः" इति । भट्टश्रीभूतिराजेनाप्युक्तं - 'सर्वक्रोडीकारेण स्थितत्वाद् देव्येव - मन्त्रः" इति । एवञ्च GRAD “पृथमन्त्रः पृथमन्त्री न सिध्यति कदाचन । ज्ञानमूलमिदं सर्वमन्यथा न प्रसिध्यति ।।" इति नीत्या स्वात्मसंवित्स्वरूपस्यैव मन्त्रशब्दार्थत्वं मुख्यम् । अक्षरस- निवेशेषु पुनरुपचारेणोच्यत इत्युक्तं भवति । यदाहुः - “उच्चार्यमाणा ये मन्त्रा न मन्त्रांश्चापि तान् विदुः । मोहिता देवगन्धर्वा मिथ्याज्ञानेन गर्विताः ॥” इति । यच्चोक्तं मयैव संविदुलासे - w इति । एतदाशयेनैव " पुण्ड्रेक्षोरिव मन्त्रस्य माधुर्ये हृदयस्पृशि । ऋजीषमानने तिष्ठत्यक्षरोच्चारलक्षणम् ॥” "गुरुदेवतामनूनामैक्यं संभावयन् धिया शिष्यः” १. 'ल्प', २. 'त्रे-चि' ग. पाठः ३. 'हिं' ख. पाठः