पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । " षड्रसास्वादनं तस्य नैवेद्याय प्रजायते । यमेवोच्चारयेद् वर्णं स जपः परिकीर्तितः ॥" इति । उक्तरूपा चेयं सपर्या धन्यजन्मनः कस्यचिदेव पुंसः प्रतीति- पथमवतरति । यदुक्तं श्रीतन्त्रालोके - “एघ यागविधिः कोऽपि कस्यापि हृदि वर्तते । यस्य प्रसीदेविचक्रं द्रागपश्चिमजन्मनः ॥” इति । तत्रासवस्यान्तःकरणप्रसावकत्वम् । ताम्बूलस्य शरीरं प्रति बाह्यान्त- रोभयशोधकत्वम् | गन्धस्य चन्दनादेः प्राचुर्येण बहिरङ्गो संस्कारकत्वम् । पुष्पाणां च तत्रैव केशादिमात्राधिवासप्रयोजकतेति पूर्वपूर्वप्राधान्यात् क्र- मविवक्षा | विश्वपतेरिति सम्बन्धमात्रे षष्ठी, न माषाणामश्नीयादितिवत् । तेन खल्योगेऽप्येवं प्रयोगो न दुप्यति । यदुक्तं - " इदं हि शास्त्रमाहात्म्य दर्शनालसचेतसाम् । अपभाषणवद् भाति न च सौभाग्यमुज्झति ||" इति ॥ ४२ ॥ एवं सपर्यास्वभावं सामान्यतः परासृश्य तद्विशेषानपि तथा यो- जयिष्यमाणः प्रथमं प्राणायामस्य पारमार्थ्य प्रख्यापयति: M विमरिसिउं णिअसत्तं विहवे कज्जम्मुहम्म थिमिए वि। वाहिरवुत्तन्ताणं भंगो पाणस्त संजमो णेओ ॥ ४३ ॥ विम्रष्टुं निजसवं विभवे कार्योन्मुखे स्तिमितेऽपि । बाह्यवृत्तान्तानां भङ्गः प्राणस्य संयमो ज्ञेयः ॥ इति । पॉरमेश्वरोपास्त्युन्मुखानां हि प्रमातॄणामयं स्वभावः- यत् स्वात्मस्फुरत्ताविष्फारोपरागमहिम्ना तत्तत्प्रसरणप्रकारवैचित्र्याक्रान्तं प्रपञ्चोच्छ्रायं प्रवर्तयन्तो बहिरन्तर्विभागशून्यामलौकिकीमात्मभूमिमारुह्य १. 'र्याक' २. 'न्द्रः' क. पाठः, ३. 'मार्थिकं प्र', ४. 'प' ग. पाठः, १ Q